Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून - २०१३
२३५
(५७) श्रीमेघराजगणिवरं प्रति प्रेषिता श्रीविद्यासागरसूरिप्रणीता प्रसादपत्री स्वस्तिश्रीकरसम्भवं जिनपति श्रीसम्भवं संमुदा,
भास्वद्भासुरबन्धुरोद्धरतरैः सम्भूषणैर्भूषितम् । वन्देऽहं विधिपक्षचैत्यविमलं दीप्यत्प्रतापाद्भुतं,
___ राजद्राज्यजितारिवंशतिलकं सेनाङ्गजं सौख्यदम् ॥१॥ श्रीमच्छीविधिपक्षदक्षगणपाः सत्साधवः सूरयः,
जीयासु[:] कुशलं दिशन्तु गुरवः सम्प्राप्तविद्याश्रयाः । संसाराम्बुधितारकोद्यतधियः सत्योपदेशैर्जनान्,
सद्भव्यानमराब्धिसूरितिलकाः सम्बोधिसम्बोधका[:] ॥२॥ तेषां पादयुगं प्रणम्य शिरसा विश्वाद्भुताश्चर्यकृ
___च्छ्रीमत्सूरतिबिन्दराद् गतमयादृद्धेश्च वृद्धगुहात् । विद्यासागरसूरयोः(यो) गणधरा[:] पत्रं लिखन्ति स्फुटं,
श्रीमद्वार्षिकपर्ववृत्तिसुखदं श्रेयस्करं भाविनाम् ॥३॥ श्रीमति नान्दसमाग्रामे वा.मेघराजगणिवरेषु श्रेयश्चाऽत्रश्रीमत्पत्तनतो विहत्य जनपान् नत्वा जिनांस्तात्त्विकान्,
श्राद्धीनागकृताग्रहादनुजनैः सङ्घः समं सम्मुदा । ग्रामे चान्दसमाख्य एव भगवद्भट्टेवपाश्र्वाभिधं,
स्तुत्वा सङ्घजनस्य लालवणिजा भक्तिः कृता सादरम् ॥४॥ नामं नामं जिनान् सर्वान्, प्रदक्षिणस्थितिस्थितान् । हारं हारं मनस्तापं, कारं कारं सुशिक्षिकाम् ॥५॥ ग्रामं ग्रामं विहृत्याऽथ, विधौ संस्थाप्य श्रावकान् । वैराटनगरं प्राप्ता, महोत्सवपुरस्सरम् ॥६॥ युग्मम् ॥ परीक्षरत्नजिन्मुख्यैः, श्राद्धैः सर्वैः कृतोन्नतिः । श्रीपार्श्वकलिकुण्डाख्यः, सद्भक्तिगोचरीकृतः ॥७॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300