Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२४०
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
षट्शास्त्रे विदुरा विचारचतुरा विश्वग्यशोभासुराः । राजन्ते जगतीतले सुमतयो ते भट्टनागेश्वराः ॥११॥ यत्कीर्त्तिः कल्पवल्लीव, मेरुदण्डमवाप्य सा । तथैव विस्तृता नूनं, न ममौ विश्वमण्डपे ॥१२॥ यस्य प्रतापतपनो, द्योतयन् जगतस्त्रयम् । प्राज्ञचेतोम्बुजोल्लासी, नाऽस्तमेत्यद्भुतं महत् ॥१३।। सहस्ररसनः शेषः, सहस्राक्षः पुरन्दरः । यदीयप्रगुणान्मेने, वक्तुं द्रष्टुमभूदिति ॥१४॥ नमस्कारोऽवसेयस्तै-र्मदीयो द्विजपुङ्गवैः । वाच्यो मदनभट्टानां, सुहृदां च विशेषतः ॥१५।। अनल्पानि मया पत्रा-ण्यतः श्रीमत्क्रमाम्बुजे । प्रेषितानि पुनर्नागा-दार्याणामेकपत्र्यपि ॥१६।। तथा कृपाप्रतानिन्यां, भाव्यं जीमूतवत्सदा । मदुचितं च कार्यं सत्, प्रसाद्यं पण्डिताधिपैः ॥१७॥ भावत्कोऽस्मीति विज्ञेय-महमेतद्धाधिपैः । किं बहुना बहुज्ञेषु, वचसां रचनाऽधुना ॥१८॥ वलमानं तथा पत्रं, प्रसाद्यं मन्मनोमुदे । त्वरया लिखितं पत्रं, कार्तिकीपञ्चमीदिने ॥१९॥
इति श्रेयः श्रेणिः ॥ श्रीः ॥
-x
नेमि-विज्ञान-कस्तूरसूरि ज्ञानमन्दिर
सूरत
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300