SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २४० अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ षट्शास्त्रे विदुरा विचारचतुरा विश्वग्यशोभासुराः । राजन्ते जगतीतले सुमतयो ते भट्टनागेश्वराः ॥११॥ यत्कीर्त्तिः कल्पवल्लीव, मेरुदण्डमवाप्य सा । तथैव विस्तृता नूनं, न ममौ विश्वमण्डपे ॥१२॥ यस्य प्रतापतपनो, द्योतयन् जगतस्त्रयम् । प्राज्ञचेतोम्बुजोल्लासी, नाऽस्तमेत्यद्भुतं महत् ॥१३।। सहस्ररसनः शेषः, सहस्राक्षः पुरन्दरः । यदीयप्रगुणान्मेने, वक्तुं द्रष्टुमभूदिति ॥१४॥ नमस्कारोऽवसेयस्तै-र्मदीयो द्विजपुङ्गवैः । वाच्यो मदनभट्टानां, सुहृदां च विशेषतः ॥१५।। अनल्पानि मया पत्रा-ण्यतः श्रीमत्क्रमाम्बुजे । प्रेषितानि पुनर्नागा-दार्याणामेकपत्र्यपि ॥१६।। तथा कृपाप्रतानिन्यां, भाव्यं जीमूतवत्सदा । मदुचितं च कार्यं सत्, प्रसाद्यं पण्डिताधिपैः ॥१७॥ भावत्कोऽस्मीति विज्ञेय-महमेतद्धाधिपैः । किं बहुना बहुज्ञेषु, वचसां रचनाऽधुना ॥१८॥ वलमानं तथा पत्रं, प्रसाद्यं मन्मनोमुदे । त्वरया लिखितं पत्रं, कार्तिकीपञ्चमीदिने ॥१९॥ इति श्रेयः श्रेणिः ॥ श्रीः ॥ -x नेमि-विज्ञान-कस्तूरसूरि ज्ञानमन्दिर सूरत Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy