SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ २३९ (५८) श्रीनागेश्वरभट्टंप्रति श्रीवृद्धिविजयेन प्रेषितं पत्रम् स्वस्तीन्दिरा-गिरांदेव्यौ, यत्र द्वे अपि तिष्ठतः । विरोधिन्याविदं चित्रं, तं नत्वा परमेश्वरम् ॥१॥ भ्राजतेऽभ्रंकषा यत्र, गुर्वी हर्म्यपरम्परा । स्थिता अपि न यत्कूणे, ज्ञायन्तेऽष्टापदादयः ॥२॥ नवं धनं पुण्यवदालयेषु, न बन्धनं यत्र सपत्नचक्रात् । नवा रणाः सद्मसु वाद्यराशे-र्न वारणालेगणनं हि शक्यम् ॥३॥ छत्रेष्वेव तथा दण्डो, धम्मिल्लेष्वेव बन्धनम् । जडभावस्तथा वाप्यां, विवाहे पाणिपीडनम् ॥४॥ वक्रता वनिताभ्रूषु, पद्मस्तोमः सकण्टकः । चञ्चलाश्च ध्वजा एव, न चकोरीदृशः पुनः ॥५॥ मर्दनं पुष्पशय्याया, मधुपाश्च मधुव्रताः । कुरङ्गा हरिणा एव, सपङ्काश्च सरोवराः ॥६॥ दोषागमो रजन्यां च, काठिन्यं कुचयोस्तथा । देवालया विहाराश्च, न तु स्त्रीहृदयालयाः ॥७॥ व्यसनं धर्मकृत्येषु, यत्राऽन्यत्र न तिष्ठति । तत्र ब्रनपुरे नाको-पमाने विबुधाश्रये ॥८॥ श्रीमद्दशपुराद् भावा-दमन्दानन्दमेदुरः । वृद्धयादिविजयः प्रीति-पत्रमारचयत्यदः ।।९।। ॥ अपरम् ॥ शमिहाऽस्ति प्रभोध्येय-नामध्यानानुभावतः । आर्यवर्यवपुःसौख्य-लेखः प्रेष्योऽधुना मयि ॥१०॥ नेत्रानन्दकराः सुदर्शनधराः सर्वाङ्गिचेतोहराः । सल्लावण्यपराः प्रणाशितदराः कारुण्यपुण्याङ्कुराः । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy