Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून - २०१३
१८५
विस्तीर्णकर्णाञ्जलिभिर्यदीयकं, निपीयते तृप्तिविवर्जितैर्यशः । सुधामनादृत्य सुधाशनाधिपैः, स्वाद्येषु हृद्यामपि सर्वदैव ताम् ॥८५।। निशाकरकरक्षीर-नीराकरजलोज्ज्वलम् । कर्पूरपूरसुरभि, यशो येषां विजृम्भते ॥८६।। श्रीतातपादैरपि पूज्यपादैः, प्रसादमाधाय कृपां विधाय । स्वकीयशिष्योपरि तैः सुवित्तै-रगण्यकारुण्यपरीतचित्तैः ॥८७। स्वशरीरपरीवारा-रोग्यादिसुखसूचिका । तथा पर्युषणापर्व-निर्विघ्नोदन्तदेशिका ॥८८|| हितशिक्षाप्रसादादि-समाचारमनोरमा । प्रसादपत्रिका मेघ-मालेव स्फूर्तिमालिनी ॥८९।। प्रसादनीया त्वरितं, सर्वत्राऽऽनन्दकारिणी । शिशोः शिखण्डिनो हर्ष-प्रकर्षोत्पत्तिहेतवे ॥१०॥ अथाऽवधार्या प्रणतिस्त्रिसन्ध्यं, शिशोविशेषान्नतमस्तकस्य । प्रसादनीया च निजांहिपद्म-मधुव्रतानां मुनिसत्तमानाम् ॥११॥ निजवचनचातुरीभिः, प्रसन्निता यैः सदा परमगुरवः । तेषां वाचकपुङ्गव-श्रीवाचकवि[मल?]हर्षाणाम् ॥९२।। आनन्दितजनतानां, षड्भाषालक्षणेषु दक्षाणाम् ।
वाचकततिमुख्यानां, श्रीवाचकनन्दिविजयानाम् ॥९३।। तथा- सर्वत्र शास्त्रविषये, कषपट्टककल्पबुद्धिविभवानाम् ।
आसादितविजयानां, पण्डितवरलाभविजयानाम् ॥९४।। बुधरङ्गविजयनाम्नां, गुरोर्मनोरञ्जनेऽतिरक्तानाम् । अभिरामगुणगणानां, कोविदवररामविजयानाम् ॥१५॥ निर्मलबुद्धिधराणां, बुधसिंहानां च सीहविजयानाम् । गणिवरसधारणानां, गुर्वाज्ञाधरणधीराणाम् ॥९६।। गणिवरमतिविजयानां, तथा च गणिमुख्यतेजविजयानाम् । गणिशान्तेर्विजयानां, प्रशान्तगणिपद्मविजयानाम् ॥९७।। गणिरामविजयनाम्नां, वरकीर्तीनां च कीर्तिविजयानाम् । गणिविनयविजयनाम्नां, चन्द्राद् रत्नाच्च विजयानाम् ॥९८॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300