SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ १८५ विस्तीर्णकर्णाञ्जलिभिर्यदीयकं, निपीयते तृप्तिविवर्जितैर्यशः । सुधामनादृत्य सुधाशनाधिपैः, स्वाद्येषु हृद्यामपि सर्वदैव ताम् ॥८५।। निशाकरकरक्षीर-नीराकरजलोज्ज्वलम् । कर्पूरपूरसुरभि, यशो येषां विजृम्भते ॥८६।। श्रीतातपादैरपि पूज्यपादैः, प्रसादमाधाय कृपां विधाय । स्वकीयशिष्योपरि तैः सुवित्तै-रगण्यकारुण्यपरीतचित्तैः ॥८७। स्वशरीरपरीवारा-रोग्यादिसुखसूचिका । तथा पर्युषणापर्व-निर्विघ्नोदन्तदेशिका ॥८८|| हितशिक्षाप्रसादादि-समाचारमनोरमा । प्रसादपत्रिका मेघ-मालेव स्फूर्तिमालिनी ॥८९।। प्रसादनीया त्वरितं, सर्वत्राऽऽनन्दकारिणी । शिशोः शिखण्डिनो हर्ष-प्रकर्षोत्पत्तिहेतवे ॥१०॥ अथाऽवधार्या प्रणतिस्त्रिसन्ध्यं, शिशोविशेषान्नतमस्तकस्य । प्रसादनीया च निजांहिपद्म-मधुव्रतानां मुनिसत्तमानाम् ॥११॥ निजवचनचातुरीभिः, प्रसन्निता यैः सदा परमगुरवः । तेषां वाचकपुङ्गव-श्रीवाचकवि[मल?]हर्षाणाम् ॥९२।। आनन्दितजनतानां, षड्भाषालक्षणेषु दक्षाणाम् । वाचकततिमुख्यानां, श्रीवाचकनन्दिविजयानाम् ॥९३।। तथा- सर्वत्र शास्त्रविषये, कषपट्टककल्पबुद्धिविभवानाम् । आसादितविजयानां, पण्डितवरलाभविजयानाम् ॥९४।। बुधरङ्गविजयनाम्नां, गुरोर्मनोरञ्जनेऽतिरक्तानाम् । अभिरामगुणगणानां, कोविदवररामविजयानाम् ॥१५॥ निर्मलबुद्धिधराणां, बुधसिंहानां च सीहविजयानाम् । गणिवरसधारणानां, गुर्वाज्ञाधरणधीराणाम् ॥९६।। गणिवरमतिविजयानां, तथा च गणिमुख्यतेजविजयानाम् । गणिशान्तेर्विजयानां, प्रशान्तगणिपद्मविजयानाम् ॥९७।। गणिरामविजयनाम्नां, वरकीर्तीनां च कीर्तिविजयानाम् । गणिविनयविजयनाम्नां, चन्द्राद् रत्नाच्च विजयानाम् ॥९८॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy