________________
१८६
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
गणिधीरविजयनाम्नां, धर्मपराणां च धर्मविजयानाम् । ज्ञानाभ्यासरतानां, क्षुल्लानां कमलविजयानाम् ॥९९।। अन्येषामपि नित्यं, यथोचितं वन्दनानुवन्दनया ।
सा शैशवी प्रसाद्या, साधूनां सानुभावानाम् ॥१००।। अथाऽत्रत्याः
गणिहीरविमलनामा, गणिस्तथा बुद्धिविमल इत्याह्नः । गणिरत्नविमलनामा, मुनिस्तथा नेमिविमलाह्वः ॥१०१।। मुनिजसविमलाह्वानो, मुनिस्तथा मानविमलनामा च । मुनिहर्षविमलनामा, तिस्रः साध्व्यश्च वन्दन्ते ॥१०२॥ रम्यतलोदग्रामा-वस्थितबुधकीर्तिविमलनामानः । कर्पटवाणिज्यस्थित-बुधनयविमला नमन्त्युच्चैः ॥१०३।। सकलोऽपि सङ्घलोकः, प्रणमति गुरुपादपादपद्मानि । आश्विनशुक्लचतुर्थ्यां, विज्ञप्तिरियं कृता सिद्ध्यै ॥१०४||
[अस्य पत्रस्य प्रारम्भिकांशस्य छायाकृतिः
(Xerox) अस्माभिर्न संप्राप्ता]
-x
ला. द. विद्यामन्दिर
अमदावाद (मुनिश्रीधरन्धरविजयजी द्वारा)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org