________________
जून - २०१३
१८७
(३९-४०)
श्रीविजयदेवसूरि प्रति प्रेषितं पं. श्रीलावण्यविजयस्य पत्रव्यम् (त्रुटितम्)
__ (१) [...] स्वयं, साकं स्वीयपरिच्छदेन च किमु श्रीनन्दनोऽकारयत् ॥२६।। यया स्वीयशोभातिरेकेण पुर्या-ऽभिभूता पुरी निर्जराणां भरेण । दधाना ततोऽद्वैतदुःखप्रकर्ष, हृदाऽभूतपूर्वं किमु स्वर्जगाम ॥२७॥ विश्वत्रयीनिखिलपत्तननिर्जयिन्या, लक्ष्या यया धनदपूर्गमिताऽभिभूतिम् । मन्ये न दर्शयितुमास्यमलम्भविष्णु-ौंडावशाद् गतवती रजताद्रिशृङ्गे ॥२८।। येन स्वैः पुटभेदनेन विभवैर्विश्वत्रयीपत्तनश्रेणीमानमलिम्लुचैः परिभवं संप्राप्यमाना भरात् । गन्तुं क्वाऽपि न यत्पुरः कथमपि प्राणान् गृहीत्वा प्रभुर्लङ्का मध्य इवाऽम्बुधेर्निरपतत् तद्भीविहस्ताशया ॥२९॥ त्रिलोकीपुरीगर्वसर्वकषायाः, श्रियं प्राप्तुकामा किमु स्वेन यस्याः । किमाकण्ठनीरे प्रविश्याऽम्बुराशे-स्तपस्तीव्रमातन्वतीति स्म लङ्का ॥३०॥ विभीषणो रात्रिचराधिपोऽसौ, निर्विण्णचित्तेति च नायकान्निजान् । विहाय तं गुप्ततमं ततः क्षितौ, लङ्का किमेषा वरभर्तृकाम्यया ॥३१॥ यस्येक्षणाच्च वचनश्रवणादभद्रं, भर्ताऽभवद् विधिवशान् मम कौशिकः सः । उद्वेगभाक् किमिति नाकपुरी कथञ्चित्, त्यक्त्वा किमागतवती भुवि यन्निभेन ॥३२।। भूतेशभूधरनभोगणचुम्बिशृङ्गे, तप्त्वा तपो निधिपतेर्नगरी नितान्तम् । अद्वैतवैभवमवाप्य पुरीमिषेण, भूमण्डले स्थितवती समुपेत्य मन्ये ॥३३।। स्वस्सत्पुरीजित्वरवैभवाया, यस्याः श्रियं प्राप्तुमिवेहमाना । कैलासभूमीधरतुङ्गशृङ्गे, गत्वा तपस्यत्यलका दिवानिशम् ॥३४॥ तक्ष्णोत्येष निरागसां शमवतां यत्तापसानां तपः,
___पत्या पातकिनाऽमुना तदुचितः सङ्गः कथञ्चिन् मम । इत्यारेक्य तपस्विनां सुखकरी स्वस्सत्पुरी यन्मिषात्,
सन्त्यज्याऽवततार किं क्षितितले धर्मात्मभिः पूरिते ॥३५।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org