________________
१८८
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
अरविन्द इवोन्निद्रे, तस्मिंल्लक्ष्मीनिकेतने । श्रीमत्तातपदाम्भोज-रज:पावितभूतले ॥३६।। श्रीतातपादवरनामपवित्रमन्त्र-ध्यानावधानजनरञ्जकसन्निधानात् । विश्वातिशायिविबुधव्रजराजमानात्, श्रीमत्पुरात् सदहिमन्नगराभिधानात् ॥३७॥ सानन्दं विनयावनम्रशिरसि न्यस्य द्वयं हस्तयो
___ नत्वा शम्भुतनूरुहाम्बकमितावर्त्तप्रणत्या पुनः । भक्तिव्यक्तितरङ्गरङ्गितमना निश्शेषशिष्याणुको,
___ लावण्याद् विजयः समुत्सुकतया विज्ञप्तिकां ढौकते ॥३८॥ प्रयोजनं चाऽत्र विभातकाले, विभावसोरंशुविभातकाले । सभाजनानां गुणभाजनानां, सभासमक्षं जनरञ्जनानाम् ॥३९।। श्रीशान्तिकृच्छान्तिचरित्रवाचनं, वाचंयमारम्भितसूत्रवाचनम् । उपासकश्राद्ध्युपधानवाहनं, मुमुक्षुयोगोद्वहनं विशेषात् ॥४०॥ ब्रह्माननत्रिदृगपत्यपवित्रनेत्र-मेयव्रतोच्चरणपूर्वकचारुनन्दिः । इत्यादिकं सुकृतिनिर्मितपुण्यकृत्यं, प्रावर्तताऽनवरतं ननु जायते च ॥४१॥ अथ परम्परया समुपागते, गणिसुधर्मसुधर्मसुसङ्गते । जिनपतिप्रवरानननिर्गते सुविधिना विधिना समुपागते ॥४२।। बहुलसज्जनमानसमोहने, विबुधनिर्मितसन्नियमोहने । सुविहिताखिलपर्वमहोत्तमे, प्रवरवार्षिकपर्वमहोत्तमे ॥४३॥ अनल्पसङ्कल्पसमीहितार्थ-कल्पस्य कल्पस्य महोदयस्य । नवक्षणैर्दत्तनवक्षणैः श्री-कल्पाख्यसूत्रस्य सुवाचनाऽभूत् ॥४४|| सार्मिकप्रकरपारणकप्रदा(धा)ना(न)-पुण्यं च चैत्यपरिपाटिकया समेतम् । सूर्यप्रमाणदिनजन्त्वभयाभिधान-दानप्रर्वत्तनकुकर्मनिवर्त्तने च ॥४५।। महामहाः सप्तदशप्रकारा, जिनेश्वराणां शिवशर्मकाराः ।। बभूवुरुच्चैश्च जिनालयेषु, विशेषतः स्नात्रमहा महान्तः ॥४६।। तथाऽर्द्धमासक्षपणाद्यनेक-द्वि-पञ्च-पञ्चा-ऽष्टकसङ्ख्यमुख्याः । तपोविशेषा बहवो बभूवुः, पुण्यात्मनां कर्मवनीकुठाराः ॥४७॥ इत्यादिधर्मिजननिर्मितसर्वशर्म-धर्माम्बुधिः सकलसिद्धिमियाय वृद्धिम् । श्रीतातपादसफलोदयिनामधेय-ध्यानोत्तमद्विजपतेरुदयप्रसादात् ॥४८॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org