________________
जून - २०१३
१८९
अथ गुरुवर्णनम्सुधाशनद्वीपवतीतटे तपः, कृत्वा च मुक्त्वा स्वकलङ्कपङ्कम् । जग्राह किं रात्रिपतिर्यतीन्दो-र्वाणीसुधाशालिमुखावतारम् ॥४९।। श्रीसूरिवास्तोष्पतिना स्वकीर्ते-र्वलक्षलक्ष्म्याऽमृतवारिराशिम् । नीत्वाऽभिभूतिं किमु वाग्विलास-च्छलादुपादायि सुधा तदीया ॥५०॥ रसातले भोगिकुलाकुलीकृते, स्वघातशङ्कां दधती हृदन्तः । प्रणश्य निर्विघ्नमुनीन्द्रवका-कुण्डे सुधा वाड्मिषतः स्थितेव ॥५१|| वाणीविधानावसरे व्रतीन्दो-जगत्सृजा निर्जरसौधमध्यात् । सुधा गृहीता सकला तदादि, सुरा बभूवुः किमु यज्ञभोजिनः ॥५२।। सारङ्गदृक्सन्ततिकान्तवक्त्र-श्रियाभिभूतत्वसमुत्थदुःखात् । त्यक्त्वा क्षयन्तं शशिनं सुधेव, भेजे यदास्यं वचनच्छलेन ॥५३॥ कुमुद्विबोधप्रविधायकस्य, हृदुल्लसद्ध्यानसुधापयोघेः । सुधारस: सूरिसुधाकरस्य, वाणीमिषात् किं प्रकटीबभूव ॥५४॥ धात्रा मुनीन्दो! तव वाक्समूह, प्रकुर्वता तां स्वसुधां गृहीताम् । विभाव्य वार्द्धिः पतितो धरित्र्यां, तारस्वरैरारटतीव दुःखम् ॥५५।। तरङ्गिणीप्राणपतौ स्थितो मां, जनार्दनो मा तुदतात् कदाचित् । सुधा विचिन्त्येति विमुच्य वार्डिं, वाणीमिषाद् यस्य मुखे किमीयुषी ॥५६॥ मिथ्यात्वरोगं जगतीजनस्य, निहन्तुकामेन मुनीश्वरेण । अद्वैतवाणीकपटेन मन्ये, धृता सुधा स्वास्यसुवर्णपात्रे ॥५७|| अद्वैतमाधुर्यजुषा गुरोगिरा, जिगीषितेनाऽधिकसाध्वसोदयात् । निजावनायेव सुधारसेन, स्वस्याभितोऽरक्ष्यत चक्रिचक्रम् ॥५८॥ विधित्सता श्रीव्रतिवासवस्य, वाचं विधात्राऽच्छसुधा गृहीता । बिम्बान् मृगाङ्कस्य तदादि तस्मिन्, कलङ्कदम्भादिव रन्ध्रमासीत् ॥५९|| श्रीसूरिराजस्य मुखस्य शोभा, सम्प्राप्य मौनीहृदयेश्वरेण । अद्वैतवाणीमिषतः स्वयं पुनः, प्रीतेन जाने स्वसुधोपदीकृता ॥६०॥ विश्वामयान् हन्तुमहं प्रभुश्च, न मत् _क _ पिविधोः क्षयितू(तु)म् । तत् तत्क्षयघ्नीं दिश शक्तिमेवं, वक्तुं सुधा यद्वचनं श्रितेव ॥६१॥ श्रीसूरिराजान् निजवाग्विलासै-जिगीषतः स्वं भयतः प्रणश्य । किं चन्द्रकान्ते [ह्य? ]मृतं विवेश, तेभ्यो न चेत् तत् कथमभ्युदेति ॥६२॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org