________________
१८४
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क
(३८)
श्रीविजयसेनसूरिं प्रति प्रेषितं विज्ञप्तिपत्रम् (त्रुटितम्)
यद्यशःक्षीरपाथोधौ, कान्तिकल्लोलमालिनि ।
लोकनालिः समग्राऽपि, नौरिवाऽऽभाति मध्यगा ॥७४|| सर्वतः परिवर्द्धिष्णौ, यद्यशः क्षीरनीरधौ । तारकाः पृषतायन्ते, फेनपिण्डायते विधुः ॥७५॥ भ्रमराञ्जनसंकाशं, यद्यशः क्षीरसागरे ।
अम्बरं चन्द्रम (मा) श्शुभ्रो (भ्रः), शेवालवल्लरीयते ॥७६॥ मनः पवित्रं च वचः पवित्रं वपुः पवित्रं च जनुः पवित्रम् । वयः पवित्रं च यशः पवित्रं येषामपि न्यक्षमहो! पवित्रम् ॥७७॥ अनुत्तरं ज्ञानमनुत्तरं तपो - ऽप्यनुत्तरध्यानमनुत्तरं यशः । अनुत्तरं दर्शनमप्यनुत्तरं, शीलं च येषां धृतिरप्यनुत्तरा ॥७८॥ क्रीडाऽनन्तनिभेन वेश्मनि बलेः क्रीड क्षमामण्डले, कैलासाख्यमहाशिलोच्चयमिषादानन्दयन्ती जनान् । क्रीड स्वर्गिनिकेतने सुरगजव्याजादपीत्थं शुचिर्यत्कीर्तिः परकीर्तिखण्डनपरा चिक्रीड विश्वत्रये ॥७९॥ सदा सरस्वती वक्त्रे करणे चरणेन्दिरा । येषां कुपितयोषेव, कीर्तिर्भ्रमति दूरतः ||८०|| त्रिष्वपि विश्वविश्वेषु, सञ्चरन्ती निजेच्छया । कीर्तिमन्दाकिनी येषां निर्मलीकुरुतेऽखिलम् ॥८१॥ ग्रामोऽत्र कस्याऽपि पुरी परस्य कस्याऽपि देशो भरतं परस्य । येषां तु शुभ्रेण यशोभरेण, विश्वत्रयी व्यापि समन्ततोऽपि ॥८२॥ यशांसि येषां सुरभीणि शार- दीनाभ्रशुभ्राणि मनोहराणि । महासुमानीव सुराङ्गनानां, स्वर्गेऽपि कर्णाभरणीकरोति ॥८३॥ येषां यशोऽहर्निशमेव देव ! सीमन्तिनीभिः सुरलोकमध्ये । सङ्गीयतेऽधोऽसुरवर्णिनीभिः सत्किन्नरीभिर्गिरिकन्दरेषु ॥ ८४ ॥
Jain Educationa International
"
खण्ड २
For Personal and Private Use Only
www.jainelibrary.org