________________
जून २०१३
अथ तत्र
-
श्रीतातचरणाम्भोज-भक्त्यासक्तसुचेतसः ।
नाम्ना विमलहर्षाहवाः, श्रीवाचकपदाङ्किताः ॥८९॥ सोमविजयनामानः, पण्डिताः पुण्यपूरिताः । नाम्ना कनकविजयाः, गणयो गुणसंश्रिताः ॥९०॥ लाभविजयनामानो, गणयोऽगण्यगौरवाः । धनविजयनामानो गणयः पूज्यपूजकाः ॥ ९१ ॥ गणयो रामविजया, भानुविजयसञ्ज्ञकाः । गुणविजयाख्यगणयः, सूरर्षिगणयोऽपि च ॥९२॥ गणिश्च कीर्त्तिविजयो, गोविन्दगणिरित्यपि । वृद्धश्च शुभविजयो, हेमादिविजयस्तथा ॥९३॥ एतेऽन्येऽपि च मुनयः, श्रीतातक्रमसेविनः । ज्ञाताज्ञातप्रकारेण, द्विधाऽपि शुभचेतसः ॥९४॥ प्रसाद्याऽनुनतिस्तेषां मदीया सकलश्रियाम् । यतीनां यतिनीनां च, नामग्राहं विशेषतः ॥९५॥
Jain Educationa International
१८३
(अपूर्णं त्रुटितं चेदं पत्रमवाप्तम् ।)
नेमि - विज्ञान - कस्तूरसूरि ज्ञानमन्दिर
सूरत
For Personal and Private Use Only
www.jainelibrary.org