________________
१८२
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
त्वमेवाऽसि जगन्नाथ! जगज्ज्येष्ठ! गुणैर्गुरुः । गुरुताऽपि प्रमाणं ते, यस्यां नामाऽपि नाऽन्यजम् ॥७६।। त्वमेवाऽसि जगत्त्राता, त्वमेवाऽसि जगद्गुरुः । जगद्वन्धुस्त्वमेवाऽसि, परमानन्दमन्दिरम् ।।७७।। इत्यनेकगुणग्राम-रमणीयरमास्पृशाम् । दत्तानेकनरश्रीणां, श्रीतातानां ततौजसाम् ।।७८|| लेखो लेख इवाऽत्यन्तं, मनः प्रामुमुदत्तमाम् । शैशवं तदुदन्तोऽपि, शिशुमानसमाविशत् ॥७९॥ [युग्मम्] पुनरप्यनन्तपुण्याढ्यैः, सदाढ्यैर्वपुषः सदा ।
प्रसादनीया पत्र्येका, श्रीतातैः सुखसूचिका ||८०॥ अत्र च परिसरे -
वानरर्षीति नामानो, विबुधा उसाँपुरे । पुरे राजधनाह्वाने, विद्वद्विनयसुन्दराः ॥८१।। मुख्येऽस्मिन् राजनगरे, ज्ञानविमलपण्डिताः । पुरे कुमरगिर्याख्ये, विद्वद्विजयसागराः ॥८२।। वटपल्लीपुरे तस्थुः, पद्मविजयपण्डिताः । मुनिविजयविद्वांसो, नगरे विश्वलाभिधे ॥८३।। कृष्णर्षिगणिविद्वांसः, पुरे सिद्धपुराभिधे । महीशानपुरे तस्थुः, श्रीवन्तमुनिपण्डिताः ॥८४॥ कीर्त्तिसारेति विद्वांसो, विद्यापुरपुरस्थिताः । शुभविजयनामानः, कट्यां पाण्डित्यभाजिनः ॥८५।। एवं ये यत्र विद्वांसो, गणयोऽपि गुणस्थिताः । चतुर्मासी समासीना-स्ते तत्र सुखसंश्रिताः ॥७६॥ निर्विघ्नविहितानेक-पर्वकृत्यकदम्बकाः । सन्ति श्रीतातसेवाया-मासक्तमनसः सदा ॥८७|| भून्यस्तमस्तकस्याऽथ, शिशोः सन्ध्यात्रयेऽपि च । श्रीतातैः प्रणतिः पूर्व-मवधार्या यशोधनैः ॥८८||
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org