________________
जून - २०१३
१८१
(३७)
श्रीहीरविजयसूरि प्रति श्रीविजयसेन सूरिभिः प्रेषितं विज्ञप्तिपत्रम् (त्रुटितम्)
[...] तदपि मोहकरं न महात्मनां, त्वमसि यस्य विवर्धनतत्परः ॥६५।। गुणगणस्तव यद्गणनातिगः, समगमज्जगतीपरतोऽप्यसौ । त्वयि तथाऽपि गुणस्थितिरद्भुता, तदतिमानवमानसमोहकृत् ॥६६॥ तव विधानविधौ खलु योऽभव-द्विधिरनन्तगुणस्मृतिकृद्विधेः । पुनरुपैति कथञ्चन नाऽप्यसौ, यदि समेति शुभः समयोऽप्यसौ ॥६७॥ कलिरपि प्रसरत्कलिकेलिभृत्, कमलयाऽमलया कलितः सदा । कवलितो भवता भवतो भवेत्, सुखमखण्डितमत्र कुतोऽन्यथा ॥६८|| तव विधाय विधिर्वपुरुत्तमं, पुनरपीश! तथा यतते ततः । विहितवानयमिन्दुमुखान् परं, तव कलाऽपि न तेषु कदाऽप्यभूत् ॥६९।। विहितवास्तव देव! विधिर्वपुः, पुनरयं न तथा यतते यते! । तव कुतोऽपि कदाऽपि यतः कला, जगति नैव जनेऽजनि जातुचित् ॥७०॥ शशिनमेककलक[क]लङ्कितं, तरणिमप्यतितापतिरस्कृतम् । मणिमपीश! दृषन्मयमुत्तमं, जलधिमप्यतिशायिजलालयम् ॥७१।। विहितवान् विधिरेष पराङ्मुखः, सततमेव सतां शुभसम्पदः । स्मृतिमगात्किमु नैव भवान् परं, त्वयि न दोषलवोऽपि यतोऽभवत् ।।७२।।
[युग्मम्] गणपतेऽगणनीयगुणास्तव, प्रसरमापुरिमे जगतीतले । मतमनेन न यौगिकमुन्नति, व्रजति यद् गुणिनोऽपि विना गुणाः ॥७३॥ न रमणी रमणीयगुणाम्बुधे-र्मनसि यस्य सदाऽपि समाविशत् । स जयताज्जयताज्जगतीतले, सुगुरुशेखर एष सुखाश्रयः ॥७४॥ अमितमानवमानवदायिनं, मतिमतामतिमोहतमोऽपहम् । नमत नाकिनरेशनतक्रम, क्रमगतागमगौरवकारणम् ॥७५॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org