________________
१८०
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
संहर्षेण विभूषया कृतरुषो यद्वाग्(क्)तरङ्गवजा
निर्वर्ण्य प्रतिकर्तुमीश्वरतया न स्वेन मन्दाकिनी । सिद्धान् सिद्धिकृतः प्रतीपहतये किं कुर्वती गोचरं,
___ भक्तेः सिद्धधुनी तदादि भुवने तत्सझया पप्रथे ॥२६॥ सापत्न्यात् शिवया च धूर्जटिजटाजूटाटवीसंस्थिते
भूमौ भूधरसार्वभौमशिरसः स्वस्याऽवरोहात् पुनः । और्वास्ये विनिवेशनाच्च लवणीकृत्याऽम्बुधेः स्वधुनी
त्युद्वेगादपविघ्नवाग्विभवतां विद्मो विभोर्भेजुषी ॥२७|| इत्यादिगुणसमुद्र-र्वदनाम्बुजवैभवाधरितचन्द्रैः । प्रणमज्जनकृतभद्रैः, पदकजभृङ्गायमानेन्द्रैः ॥२८॥ तातपादैः प्रसाद्या स्व-शिशोः प्रीति वितन्वती । पूर्णा प्रभावमणिभि-निधिकुञ्जी(म्भी)व पत्रिका ॥२९।।
शिशोस्त्रिसायं प्रणतिरवधारणीया । तत्रत्यसकलभट्टारकपुरन्दरभट्टारकप्रभुश्रीश्रीश्री हीरविजयसूरीश्वर, पं. लाभविजयगणि, पं. धनविजयगणि, पं. भानुविजयगणि, पं. कीर्त्तिविजयगणिप्रमुखाणां यथार्ह नत्यनुनती प्राभृतीकर्तव्या(व्ये)। अत्यत्र ग. लडू, ग. कीर्तिवर्धन, मु. दयाविमल, मु. हंसविमलादीनां प्रणतिरवधारणीयेति ॥
नेमि-विज्ञान-कस्तूरसूरि ज्ञानमन्दिर
सूरत
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org