Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२२८
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
नन्दमहानन्दपदलीलं श्रीनेमिजिनराजं राजमरालमरालतानाकलितप्रणतिमानससरस्यन्तरालं समारोप्य श्रीजीर्णदुर्गात् श्रीविजयप्रभसूरिभिः सबहुमानमालाप्यते ।
यथा प्रागभावप्रतियोगि चाऽत्र विपुलावकाशाकाशास्थानिकसिंहासनसमासीनदिनमणीरमणीयमहीपाले निस्सीमसीमन्तिनीविरहव्यथोपशान्तिप्रमुदितावक्रचक्रचक्रवाले तरुणतरणितेजःपुञ्जपिञ्जरीभूतभूतलविभूषावगणितप्रवालकन्दले स्वस्वकर्मकरणसमुद्यतानेकजीवगमागमकलकलारवमुखरितदिग्मण्डले विशाले प्रभातकाले सति जीवाजीवद्रव्यस्वरूपविचारचतुरागण्यगणिमादिद्रव्यकोटीध्वजालङ्कृतगेहराजमान्यधन्यसामाजिकसमाजे श्रीपञ्चमागसूत्रस्वाध्यायानुसन्धान-श्रीजीवाभिगमसूत्रवृत्तिव्याख्यान-यतियतिनीप्रारब्धग्रन्थाध्ययनाध्यापन-सश्रद्धश्राद्ध श्राद्धीजनोपधानोद्वाहन-मालारोपणा-ऽजिह्मब्रह्मव्रतोच्चारण-दीनोद्धरणादिधर्मकर्म सशर्म प्रावरीवृतीत् प्रवरीवति चाऽऽनुपूर्वीसमायातं श्रीशारदिकपर्वाऽपि सुपर्वापि(पि)तप्रतिष्ठं सर्वपर्वाखर्वगर्वपर्वतलक्षपक्षक्षणनशतकोटिसमानं समग्रजीवामारिपटुपटहोद्घोषणानिरस्तसमस्तव्यसनं सद्योवादितानवद्यवाद्यमाद्यद्रङ्गस्थानरङ्गत्सङ्गीतगीतनृत्यन्नर्तकसमुद्गच्छदतुच्छध्वनिघनगर्जज्जिनगृहसहिदप्रतिमप्रतिमार्हणाविरचनं सप्रभावप्रभावनाभवनादिनवनवक्षणनवक्षणकल्पितानल्पसङ्कल्पकल्पद्रुकल्पश्रीकल्पसूत्रवाचनं मासार्द्धमासक्षपणादिदुस्तपस्तपनक्षपिताष्टकर्मीनिकाचनं याचकयाचितार्थप्रदानं प्रकृष्टाभीष्टपिष्टपूरप्रभृतिविविधसुखाशिकासमग्रसार्मिकजनभोजनं साडम्बरसकलार्हच्चैत्यपरिपाटीगमनं समहामहं निष्प्रत्यूहव्यूहं समजायत । संसक्तसन्यासविन्यासध्येयामेयमहिमश्रीसूरिमन्त्रस्मरणकरणासाधारणकारणात् अपरं शुभवतां भवतां धीमतां ह्रीमतां वैराग्यरङ्गरक्तान्तःकरणानां स्वपरिकरवार्त्तवार्तापरिकलितं कविकु....
-X
ला. द. विद्यामन्दिर
अमदावाद सू. ४३४११
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300