Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२२२
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क
(५१)
Jain Educationa International
विज्ञप्तिपत्रम् (त्रुटितम् )
तथा प्रथाप्राप्तगुणैर्गुणाना-मप्याश्रयैस्तद्गणनामतीतैः । वैशेषिकं शैषिकवन्मतं ये, प्रमाणमार्गच्युतमादिशन्ति ॥१॥ श्रीहेमनाम्नः कविराजराजा, व्याजाद् विदूरे प्रणतान्वराजा । सुनीतिषु प्रीतिभृतोऽभिरूपाः, श्रीप्रीतिशब्दाद् विजयागुणाढ्याः ||२|| वैमल्यभाजो हृदये
-
यत्या-श्छायामनायासतया श्रयन्तः ।
प्राज्ञेषु मुख्या विमलेतिशब्दान् पदं दधाना विजयेति युक्तम् ||३|| श्रीमद्दुरूणां बहुभक्तिनार्या, स्तनोपपीडं सततावगूढाः । रूढास्तपोभिर्महतोदयेति - शब्देन युक्ता विजया जयन्ति ॥४॥ अब्धिः स्वरूपाद् विविधार्थलब्धेः स्तब्धेतरः श्रीगुरुपादलीनः । लब्धेः __पदात् श्रीविजयो नयानां निधिर्मतीनामवधिः कवीन्द्रः ॥५॥ सेवारसे वासितचेतसस्तद् - भाग्येन सौभाग्यपदा गणीन्द्राः । गणस्य भारोद्वहने फणीन्द्रा, दयादिनाम्ना विजयास्तथाऽन्ये ॥६॥ प्रतापपूर्वं विजया गणीशा, ज्ञातास्तथा ज्ञातचराभिधानाः । परेऽपि सर्वे मुनयो मदीया - नुनामकाप्रस्थितिभि: प्रमोद्याः ||७|| अत्रापि बुद्धास्सुविशुद्धबोधा, आनन्दपूर्वा विजयाभिधानाः । सत्तत्त्वतत्त्वाध्यवसायरक्ताः, श्रीतत्त्वपूर्वं विजयाः प्रवीणाः ॥८॥ छेका विवेकाद्यतिरेककार्ये, विवेकनाम्नो विजया हि धीराः । मेरुप्रभाः स्थैर्यविधासु विज्ञा, मेरोः पदात्ते विजयाः प्रसिद्धाः ||९|| मणिर्गणि तसुस्नवर्गे, सुरङ्गरङ्गाद् विजयो जय । जयादिनाम्ना विजयः सशोभः, सौभाग्यपूर्वं विजयः क्रियावान् ॥१०॥ पुण्योदयप्राज्यमतिः प्रतीतः, प्रज्ञाभिनीतो विजयो मतेश्च । रत्नत्रयीरत्नधरोऽथ रत्नाद्, वाचंयमोऽयं विजयः स्वनाम्ना ॥ ११ ॥
For Personal and Private Use Only
खण्ड २
—
www.jainelibrary.org

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300