Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 263
________________ जून - २०१३ २१३ ध्वान्तारातिरथावहाः सुहरयो यस्यां स्खलन्तोऽनिशं, ___ कान्तायां परिखेदयन्ति निविडं मध्यन्दिने सादिनम् ॥३२॥ चञ्चत्तोरणराजिराजितमुखाः सर्वार्थसंपूरिता, जात्यस्वर्णमषीरसैर्विलिखितप्रद्योतिचित्रालिभिः । विभ्राजिष्णुगवाक्षसंस्थितललज्जायापतीभूषिताः, प्रासादास्तविषं जयन्ति विभया प्रोत्तुङ्गशृङ्गान्विताः ॥३३॥ मर्यादारक्षणे दक्षाः, सागरा इव नागराः । अपांशुवसना भान्ति, गम्भीरा रत्नपङ्क्तयः ॥३४॥ स्वामिना सम्पदा वा स्याद्, यया तुल्याऽमरावती । गृहाट्टश्रेणिशोभाभिः, परं नैव कदाचन ॥३५।। यस्या गृहाङ्गणस्थाने, स्वस्तिकन्यस्तमौक्तिकैः । स्वैरं क्रकञ्चकक्रीडां, कुरुते बालिकाजनः ॥३६।। यत्सुन्दरीणां सुतनुप्रभाणां, क्रीडागिरी रैवतकोऽस्ति नित्यम् । सुराङ्गनानामिव हैमशैलः, अनेककल्पद्रुवनैविभासी ॥३७॥ यत्सुन्दरीणां च सुराङ्गनानां, किमन्तरज्ञानकृते विधात्रा । निमेषभावो विहितो विशेषो, विज्ञायते तत्परता कथञ्चित् ॥३८|| अनेकमङ्गलोपेताः, कुलीनजनसेविताः । हसन्ति ताविषं यत्र, प्रासादाः सुपताकया ॥३९॥ अनेकशङ्करैर्लोकै-रनेकविधिपालकैः । अनेककविसन्दोहै-रनेकगृहकेतुभिः ॥४०॥ विधुन्तुदवधूवक्त्रै-रनेकपुरुषोत्तमैः । . अनेकगुरुतायुक्तैः, स्वर्ग जयति यत् पुरम् ॥४१॥ युग्मम् ॥ अथ राजवर्णनम् ॥ सर्वलोकहितो दक्षः, परस्त्रीरमणे जडः । यस्यामस्ति महीपालो, परदानसुरद्रुमः ॥४२।। मेरुवद् भाति यत्रेशो, दीव्यद्विबुधसेवितः । नानारामाहितो रम्यः, प्रचण्डतरसाऽन्वितः ॥४३॥ स्तुवन्ति भूपतिं यत्र, मुमुक्षुमिव सज्जनाः । सदा शान्तयशःस्तम्भं, नानादेशविहारिणम् ॥४४॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300