Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१२
अनुसंधान-१५ • 44 कर्मातङ्कमलघयदुर्गतिकार्मकमलोहयद्यच्च । भवकूपकमलने त्वं निःशङ्कमलज्जवोऽसुमताम् ॥४६।। विनयोदर्कमलासीदेकागारिकमलाटयद्वीरः । सेवकमलालयत्कुलनंदकमलयस्यपि स्म जगत् ॥४७॥ न्यकृतजतुकमलाराट् तव पदयुगलकमलेञ्जयद्रव्यान् । तण्डकमलक्षमाण: कुगतेस्त्वं स्वकमलक्षय: सिंहात् ॥४८॥ पुण्याद्रङ्कमलाजत्पुण्यमृते क्षोणिनायकमलङ्कत् । मुखमकलङ्कमलाजद्येन च जैवातृकमलाञ्छत् ॥४९॥ परिचारकमलेलरङ्क श्रेणिकमलराजदीशधर्मेण ।। मुक्तव्यलीकमलतन् मुक्तावस्तोकमलवयन्महसा ॥५०॥ पापकमललापवचो गतसर्वारे कमलवणायत तत् ।। उदकमलाच्च भवस्याऽसुमत्कदम्बकमलादिनः ॥५१॥ कीर्तिध्वजांशुकमलोपयदात्मवंशे भव्याङ्गिमोदकमलापि वचः सुचारु । नो कर्मपेटकमलात यतीश तस्य यस्तच्च तावकमलोपयति प्रमत्तः ॥५२॥ अज्ञैनरैः सकलमङ्कमलेखयद्यो मुक्त्या च साकमललास न तीर्थनाथः । कान्त्या तथाऽधिकमलार्हततीहितार्थदाता जिनैकमलसि स्म च मर्त्यलोकम् ॥५३॥ यो वैनायकमलाघत कर्तुं सूतकमलोकयत्तव च । परमं लोकमलाघीत् स प्राप्तुं वर्णकमलब्ध ॥५४॥
२४
२५
३२
१.लघु अकरोत्, २.कर्मशीलः कार्मकः, ३.यत्कर्म लोहमिव आचरत्,४.धारणे, ५.रज्जुरिवाचरः अरज्जवः, ६.अरासीत्, ७.एकागारिकं चौरं अराटयदुःखं कारितवान्, ८.सेवकमलालयत्-विलासं कारितवान्, ९.मण्डयसि, १०.लाक्षा, ११.अराराट्, १२.अरञ्जयत्, १३.मायावन्तं, १४.सिंहात्स्वकं आत्मानं अलक्षयः अङ्कितवान्, १५.अराजयत् राजानं अकरोत्, १६.रङ्कमकरोत् अरङ्कयत्, १७.अराजत् शोभितं, १८.येन मुखेन चन्द्रमलाञ्छत् लाञ्छितमकरोत्, १९.रङ्कमाख्यत् धर्मेण रङ्कमपि प्रतिबोधितवान्, २०.रति अकरोत्, २१.रविरिवाचरत्, २२.पापकं वचः न ललाप, अकारो निषेधे, २३.सन्देह, २४.रसत्वेन लवणमिवाचरत्, २५.भवस्य संसारस्य उदकमराद्दत्तं-संसारस्य जलाञ्जलिर्दत्त इत्यर्थः, २६.अरक्षत्, २७.अरोपयत्, २८.लपितवान्, २९३०.तद्वचः प्रमत्तः सन् न लोपयति-अकारो निषेधे, ३१.अङ्कं शास्त्रमलेखयत् लेखितं, ३२.साकं सार्धं न ललास न-अपि तु क्रीडित एव-अकारो निषेधे, ३३. रा., ३४.अरजिन इवाचरति स्म, ३५-३६. राघृङ् सामर्थ्य-विनयं कर्तुं समर्थोऽभूत्, ३७.जन्म, ३८.लाघङ् सामर्थ्ये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118