Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२८
अनुसंधान-१५ • 47 कुर्वतॄणां तुकमलाञ्छितमूर्तिरेतद्वाञ्छावतां दददशमलक्तचेताः ॥१००।। धर्माक्षेपकमलमं साम्यविडम्बकमलम्यदुर्गतिगम् । त्वदनाक्षेपकमलजं कुरुषे स्वस्तावकमलाप्यम् ॥१०१॥ कर्मान्तकारकमलनसि भूमिपीठं व्यापत्प्रमायकमलत्पदिमुख्यधातून् । सार्वेशनामकमलं विमलावबोधे द्रव्यात्मनाऽपि कमलं कथयन्नयश्रीः ॥१०२।। वक्त्रेण य: कमलवैरिणमाजिगाय काष्टास्यलोकमलयन्त पुनर्नवौघः । सुस्थापनाकमलमुज्ज्वलमङ्गलश्रीनिक्षेपतः कमलमीश वदश्च भावात् ॥१०३।। कमललीशभवेऽपि शिवे तथा कमललिन्यतिहावैवशीकृतः । कमलमाथितनुश्रुतिराशिता कमलवस्तुपरित्यजकः श्रिये ॥१०॥ कमलधारिनिषेव्यपदाम्बुजः कमलवाचकमीश्वर निक्षिपन् । कमलमुच्यसि देशमनेहसं कमलभव्यमहो कमलं वदन् ॥१०५।। कमलचक्रधनूरथवज्रभृत्पदयुगः कमलव्रजवर्जितः । कमलवत्यखरांग कथान्तरे कमलेसेननृपं प्रतिपादयन् ॥१०६॥ कमलनामकमीश पुरं तथा दयितयानुगतं कमलाख्यया । सुतवरं प्रवरं कमलाकरं कमलसामजमादिजिनेशितः ॥१०७।। युग्मम् ॥ कमलमीश यथा कमलाकरे कमलभृत्यपि वाकमलं यथा । तदिव सज्जननीकमलोदैरे वससि पुस्कमल: श्रितवैभवः ॥१०॥
१.अपत्य, २.अपत्य, ३.निन्दक, ४.अर[मं], ५.अर[म्यं], ६.अर[जं], रजः पापं अयमकारान्तोऽपि, ७.मडु भूषायां मण्डन्, ८.आपनाशकं, ९. मण्डति धातुः आदिधातुः, १०.नामस्थापनाद्रव्यभावभेदात्, ११.कमलद्रव्यं, १२.कमलवैरीचन्द्रः, १३.जितवान्, १४-१५.काष्टा दिशस्तासां आस्यं मुखं तत्र मण्डयन्त: आदर्शस्तद्वत् पु[न] नवा नखा यस्य,१६-१७.भावकमलं, १८.कः कामस्तं मन्दयति. कमन् तं आचष्टे कम्-अलड् अवाञ्छकः, १९.कं जलं तत्र मङ्गतीति कमन् मीनः तां हितवाक्यैः आचष्टे कम्, २०.ललो विलासो यस्याः सा ललिनी स्त्री-अकारो निषेधे, २१.मुखविकारः, २२.कः सूर्यस्तस्य मण्डं शोभां मथतीति, २३.कं चित्तं मलते धरतीति कमलं सच्चित्तं वस्तु, २४.कं सुखं, अण्डधारिणः पक्षिणः, २५.कमलशब्द, २६.कमलं देशं कमलं कालं च निक्षिपन् निक्षेपेण वदन्, २७.उच्यसि-उचच् समवाये-सुखं मेलयसीत्यर्थः, २८.कमलशब्दज्ञानयोग्यमपि कमलमेव वदन्, २९.शरीरस्वेद, ३०.कमलवती कमलिनी तद्वत्[अ]खरं कोमलमङ्गं यस्य, ३१.कमलसेननृपं कमलाराज्ञानुगतं कमलाकरं पुत्रं तस्य कमलानाम्ना सामजं हस्तिनं कथाविशेषेण प्रतिपादयति, ३२.पद्म, ३३.पद्मसरसि, ३४.धनुर्धरौ, ३५.धनुः, ३६. कमलशब्दः शोभार्थे, ३७.पुरुषपुण्डरीक:-कमलं पुण्डरीकं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118