Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 322
________________ C द्वितीयः काण्ड: स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु ॥ चेष्टायोन्योर्बुधे जन्तौ शृङ्गारादेश्व कारणे ॥५२२।। (२९७) स्त्र्यम्बकपादपांसवः। भावोऽभिप्रायवस्तुनोः । स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु । चेष्टायोन्योर्बुधे जन्तौ शृङ्गारादेश्व कारणे । शब्दप्रवृत्तिहेतौ च । भवति भावः । " वा ज्वलादि" ५।१।६२ इति णः । भवनं वा भवतोऽस्मादभिधानप्रत्ययाविति वा । पञ्चदशस्वर्थेषु । अभिप्रायस्वभावात्मयोनिशब्दप्रवृत्तिहेतुषु पुंक्लीबः । शेषेषु पुंसि । अभिप्राये यथा - अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान् भावमतोऽभिधास्ये । वस्तुनि यथा - जगति जयिनस्ते ते भावा न वेन्दुकलादयः ।। ५२१|| स्वभावे यथा - भावानुरक्तवनितासुरतैः शपेयम् । जन्मनि यथा - उपकाराय हिमवतां भावो विधिना प्रतिज्ञातः । सत्तायां यथा-नासतो विद्यते मावो नाभावो विद्यते सतः। आत्मनि यथा-यतो बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिदं कथं जनम् । अत्र हि सर्वगतस्त्वं ममाप्यात्मा त्वं तत्रस्थिताहमित्यर्थमाहुः । क्रियायां धात्वर्थे यथाधात्वर्थ: केवलः शुद्धो भाव इत्यभिधीयते । लीलायां यथा - हावेर्मावविलासैश्च हरन्ति वरयोषितः । विभूतावैश्वर्ये यथा-शत्रोर्भावोऽपि हि श्रेयान् न मित्रस्य तु दुर्गतिः । अन्धकारोऽपि हि वरं न ज्योत्स्ना तुहिनाहिता । चेष्टायां कायकृते व्यापारे यथा - सर्वभावेन संसारः शुभेनाप्यशुभेन वा । बन्धनायैव साधूनां मुग्धानां तोषणाय च । योनावुत्पत्तिस्थाने यथा - को भावः खलचित्तानां जलानां विद्युतां तथा । अपूर्व एष सन्तानो न विधे: ( विधिः ) सृष्टिगोचरः । बुधेनाद्योक्त्या विदुषि यथा-सौगतजरत्परिव्राजिकायाः कामन्दक्या भूमि भाव एव वेत्ति । जन्तौ यथा - भावा

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392