Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 348
________________ द्वितोयः काण्डः wwwwwwwwwwwwwwwwwwwwww प्रकाशे दृशि नक्षत्रे तपः कृच्छादिकर्मणि । धर्मे लोकप्रभेदे च तपाः शिशिरमाघयोः ॥५६७॥ तमो राहौ गुणे पापे ध्वान्ते तरो जवे बले । त्रासो भये मणिदोषे तेजस्त्वितसोर्बले ॥५६८॥ यथा-ज्योति?तितविष्टपं विजयते राजीव संजीवकम् ।।५६६।। प्रकाशस्तेजः। तत्र यथा-कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने । दृगत्र कनीनिका मध्यम् यन्मयः। तारानेत्र त्रिभागः स्याज्ज्योतिस्तत्यं च मांशकम् । नक्षत्रे यथा-ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम् । तपः कृच्छ्रादि कर्मणि। धर्मे लोकप्रभेदे च। तप्यते तपः । “अस्' (उ० ९५२) इति अस । क्लीबे । कृच्छ्रे सान्तपनम् आदिशब्दात् चांद्रायणादिव्रतम् । तत्र यथा - तपः क्व वत्से क्व च तावकं वपुः । धर्मे यथा-विनाप्यस्मदलंभूष्णरिज्यायै तपसः सुतः । लोकप्रभेदो जनो लोकाद् द्वितीयः। तपाः शिशिरमाघयोः। शिशिरे पुंसि । माघे पुंक्लीबः। शिशिरे यथा-ग्रीष्मे पञ्चाग्नितपसा तपस्यम्भोऽन्तरश्रिता। त्वया सायुज्यमाप्येत पार्वत्यत्र निदर्शनम् । माघे यथा - महतामपि चेतांसि लोभो मोहश्च नाशयेत् । तपास्तपस्यश्च यथा-सरसां कमलान्यहो ।।५६७।। तमो राहौ गुणे पापे ध्वान्ते । ताम्यन्ति अनेन तमः। "अस्” (उ० ९५२) इति अस् । राहौ पुंक्लीबः। अन्यत्र क्लीबे। राहौ यथा-जनसे तमसेवेन्दुः । गुणे यथा-रजोजुषे जन्मनि सत्ववृद्धये स्थितौ प्रजानां प्रलये तमःस्पृशे । पापे यथा--कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसा सरयूतटाः। ध्वान्ते यथा-क्षपातमस्काण्डमलीमसं नभः। शोकेऽपि मंखः। यथा-अथान्धकारमाशानां शशामा

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392