Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 349
________________ (३२४) अनेकार्थसंग्रहः सटोकः नवनीते प्रभावेऽग्नौ दासो धीवरभृत्ययोः । वृषले दानपात्रे च दासी झिण्टयपि चेद्यपि ॥५६९॥ श्यानसन्तति । न तु खण्डेन्दुचूडस्य प्रियाविरहजं तमः । तरो जवे बले । तरत्यनेन तर। “अस्” (उ० ९५२) इति अस् । क्लीबे द्वयोर्यथा-कैलासनाथं तरसा जिगीषुः । त्रासो भये मणिदोषे । त्रसनं त्रस्यत्यस्माद्वा त्रासः। भये यथाचक्षुर्यदीयमपहत्य जनस्य चेतस्त्रासादिव श्रवणकन्दरदुर्गमेति । मणिदोषे यथा-अत्रासामणयो धार्याः । तेजस्त्विट्रेतसोर्बले । नवनीते प्रभावेऽग्नौ । तेजयति तेजः । “अस्' (उ० ९५२) इति अस् । क्लीबे । त्विषि दीप्तौ यथा-तत्तेजः प्रथमोद्भवं भ्रमकरं शौरं चिरं पातु वः। रेतसि शुक्रे यथा-अत्यादित्यं हुतवहमुखे संभृतं तद्वितेजः। बले यथा-तेजसां हिन वयः समीक्ष्यते ॥५६८॥ नवनीते यथा-धेनुः स्तोकपयस्काऽपि सतेजस्का प्रशस्यते । प्रभावे प्रतापे यथा-इतस्ततो रूढतृणाङ्करेषु तेजो विषह्यं रिपुमन्दिरेषु । अग्नौ यथा-तेजसः सपदि राशिरुच्छ्रितः प्रादुरास किल वाहिनीमुखे । असहनत्वेऽपि मंखः । यद्भरतःअधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेऽप्यसहनं बत्तेजः समुदाहृतम्। तत्र यथा-तेजः क्षमावानैकान्तः कालज्ञस्य महीपतेः। दासो धीवरभृत्ययोः। वृषले दानपात्रे च । दास्यतेऽस्मै दासः । धीवरे यथा-अपिपोतकृतावासैसैराशा विजज्ञिरे । भृत्ये यथा-अद्यप्रभृत्यनवताङ्गि तवास्मि दासः । वृषले शूद्रे यथा-कि रे दास तपस्यसि । दानपात्रे यथा - ददौ दासाय वासांसि नृवर्यः सूर्यपर्वणि । दासी झिण्ट्यपि चेद्यपि (चेट्यपि) गौरादित्वाद्डी: । झिण्टी वृक्षभेदः। चेद्यां यथा-निःशेषागार

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392