Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 362
________________ द्वितीयः काण्ड: (३३७) वृषे वाहा तु वाहौ स्याद् व्यूहो निर्वाणतर्कयोः । समहे बलविन्यासे सहः क्षमे बलेऽपि च ॥५८९॥ सहोव्यां सहदेवायां कुमारू नखभेषजे । मुद्गपण्यां च सिंहस्तु राशिभेदे मृगाधिपे ।।५९०॥ वर्णिकायां यथा-बहुप्रयोजनं वस्तु विविच्यारभते बुधः । वहं विना हि नादत्ते बहुमूल्यं विवेचकः। वोढरि यथा-विरहहुतवहेन प्रेयसी दह्यतेऽसौ। नदेऽपि यथा-तं ससिन्धुवहमाप महीं यः । वाहोऽश्वमानयोः । वृषे । वाह्यते वाहः । अश्वे यथा-इतीव वाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुद्धतं रजः । मानभेदे व्योमाख्ये यथा-मातुं वाहैः शक्यते नान्तरिक्षं वेत्तुं शक्यं नो मनो मानिनीनाम् ।।५८८।। वृषे यथा-खे खेलगामी तमुवाह वाहः । वाहा तु वाहौ स्यात् । यथा-शाम्यन्ति भोगेन न जातु कामा न वाहया वा सुतरः समुद्रः । व्यूहो निर्माणतर्कयोः । समूहे बलविन्यासे । व्युह्यते रच्यते व्यूहः । निर्माणे यथा-सकुट्टिमव्यूहनिगूहितार्थः। तर्क वितर्के यथाहिताहितव्यूहपरामनीषिणः । समूहे यथा-सर्वाङ्गीणवलीविलुप्तनयनव्यूहः कथं वर्त्तते । बलस्य सैन्यस्य चक्रादिरूपेण विन्यासो बलविन्यासः । यदाह-दण्डो मण्डलभोगौ चाप्युत्सन्नश्वावलो दृढः । व्यूहास्तेषां विशेषाः स्युश्चक्रव्यूहादयोऽपि च । तत्र यथा - लोकरिव महाकाव्यं व्यू हैस्तदभवद् बलम् । सहः क्षमे बलेऽपि च । सहते सहः । क्षमे वाच्यलिङ्गः । तत्र यथा-असहः स हि शीतस्य । बले पुक्लीबः। तत्र यथा-न सहेन स हीयते ।। ५८९।। सहोयाँ सहदेवायां कुमार्यां नखभेषजे । मुद्गपर्यां च । उर्त्यां यथा-सहैव सहते सर्वम् । शेष ओषधिवर्गः। सिंहस्तु राशिभेदे मृगाधिपे । श्रेष्ठे स्यादुत्तरस्थश्च ।

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392