Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 360
________________ द्वितीयः काण्ड: प्रौहो निपुणतर्फे स्याद्गजांहिपर्वणोरपि । बर्हः पर्णे परिवारे कलापे बहु भूयसि ॥ ५८६ ॥ (३३५) हारेऽपि मंख: । अवहारो मिथ्याकालक्षेपरूपः । तत्र यथाजलबहुले बहुलेहावहितप्राणिप्रकारपरिकरिते । ग्राहसहस्रैर्दीर्घ संसाराब्धी क इव तीर्णः । गुहः स्कन्दे । गूहति गुहः । " तुदादि विषि" ( उ० ५ ) इति कित् यः । स्कन्दः षण्मुखः । तत्र यथा - गुहोपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यत् । गुहा पुनः । गह्वरे सिंहपुच्छ्यां च । गह्वरे यथा - दिवाकराद् रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । सिंहपुच्छी ओषधिः । गृहा दारेषु सद्मनि । गृह्णन्ति गृहाः । " गेहे ग्रह : " ५।१।५५ । इति कः । उपचाराद्दारा गृहाः । पुंक्लीबः । पुंसि बहुवचनान्त एव । दारेषु यथा - गृहा मुनीनामुटजाङ्गणेषु । सद्मनि यथा - गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यवतां मनीषिणः ।। ५८५ ।। प्रौहो निपुणतर्फे स्याद्गजाङ्घ्रि (हि) पर्वणोरपि । प्रौहणं प्रौहः । प्रौद्यतेऽसाविति वा घञ् । “प्रस्यै षैष्य" १ |२| १४ | औत्वम् । निपुणतर्फे यथा - प्रोहप्रौढिं न कुर्वते । गजांहिर्गजचरणः । तत्र यथा-आकुञ्चितप्रीहनिरूपितक्रमम् । करेणुरारोहयते निपादिनम् । पर्व उत्सवः । अङ्गलिसन्धिर्वा । बर्हः पर्णे परीवारे कलापे । बर्हते बर्हः । परीवारे पुंसि । शेषयोः पुंक्लीबः । पर्णे यथा - अ ( आ ) पाण्डुरं केतकबर्हमन्यः । परीवारे यथा - देवं चेत्प्रतिकूलं स्याद्बर्हस्तहि निरर्थकः । कलापे यथा - यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिखण्डिबर्हः । बहु भूयसि । श्यादिकासु च संख्यासु | बहति बहुः । " मि वहि " उ: । वाच्यलिङ्गः । भूयसि यथा - किं ( उ० ७२६ ) इति वा बहु ब्रूमहे यत्सत्यं

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392