________________
द्वितीयः काण्ड:
प्रौहो निपुणतर्फे स्याद्गजांहिपर्वणोरपि । बर्हः पर्णे परिवारे कलापे बहु भूयसि ॥ ५८६ ॥
(३३५)
हारेऽपि मंख: । अवहारो मिथ्याकालक्षेपरूपः । तत्र यथाजलबहुले बहुलेहावहितप्राणिप्रकारपरिकरिते । ग्राहसहस्रैर्दीर्घ संसाराब्धी क इव तीर्णः । गुहः स्कन्दे । गूहति गुहः । " तुदादि विषि" ( उ० ५ ) इति कित् यः । स्कन्दः षण्मुखः । तत्र यथा - गुहोपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यत् । गुहा पुनः । गह्वरे सिंहपुच्छ्यां च । गह्वरे यथा - दिवाकराद् रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । सिंहपुच्छी ओषधिः । गृहा दारेषु सद्मनि । गृह्णन्ति गृहाः । " गेहे ग्रह : " ५।१।५५ । इति कः । उपचाराद्दारा गृहाः । पुंक्लीबः । पुंसि बहुवचनान्त एव । दारेषु यथा - गृहा मुनीनामुटजाङ्गणेषु । सद्मनि यथा - गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यवतां मनीषिणः ।। ५८५ ।। प्रौहो निपुणतर्फे स्याद्गजाङ्घ्रि (हि) पर्वणोरपि । प्रौहणं प्रौहः । प्रौद्यतेऽसाविति वा घञ् । “प्रस्यै षैष्य" १ |२| १४ | औत्वम् । निपुणतर्फे यथा - प्रोहप्रौढिं न कुर्वते । गजांहिर्गजचरणः । तत्र यथा-आकुञ्चितप्रीहनिरूपितक्रमम् । करेणुरारोहयते निपादिनम् । पर्व उत्सवः । अङ्गलिसन्धिर्वा । बर्हः पर्णे परीवारे कलापे । बर्हते बर्हः । परीवारे पुंसि । शेषयोः पुंक्लीबः । पर्णे यथा - अ ( आ ) पाण्डुरं केतकबर्हमन्यः । परीवारे यथा - देवं चेत्प्रतिकूलं स्याद्बर्हस्तहि निरर्थकः । कलापे यथा - यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिखण्डिबर्हः । बहु भूयसि । श्यादिकासु च संख्यासु | बहति बहुः । " मि वहि " उ: । वाच्यलिङ्गः । भूयसि यथा - किं
( उ० ७२६ ) इति
वा
बहु ब्रूमहे यत्सत्यं