SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ (३३४) अनेकार्थसंग्रह सटीकः ग्रहो प्रहणनिबन्धानुग्रहेषु रणोद्यमे । उपरागे पूतनावादित्यादौ विधुन्तुदे ॥५८४॥ ग्राहो ग्रहे जलचरे गुहः स्कन्दे गुहा पुनः । गह्वरे सिंहपुच्छयां च गृहा दारेषु समनि ॥५८५॥ "नृति शृधि" (उ० ८४४) इति किद्ः । स्त्रियाम् । नष्टेन्दुदर्शो नष्टचन्द्रा अमावास्या । वयोर्यथा-यशः प्रालेयांशुर्दिशिदिशि जगद्देव भवतस्तथायं दुरां किरति किरणश्रेणिमधुना । यथासमयं (यथा सर्व यं) राकामयसमयमालोक्य भुवनं कुहूशब्दो जातः पिकनिकरकण्ठकशरणः ॥५८३॥ ग्रहो ग्रहणनिर्बन्धानुग्रहेषु रणोद्यमे । उपरागे पूतनादावादित्यादौ विधुतुदे। ग्रहणं गृह्यते गृह्णाति वा ग्रहः। ग्रहणे यथा-तदपि न किल वालपल्लवाग्रग्रहपरया विविदे विदग्धसंख्याः(सख्या)। निर्बन्धे आसक्तौ यथाकोऽयं ग्रहस्तव विवेकवतोऽपि शंपासंपातकातरतरे तरूणीरतादौ । अनुग्रहे प्रसादे ग्रहशब्दः। सत्यभामायां भामाशब्दवत् । तत्र रणोद्यमे च यथा-त्वं देव कुर्याः समरे ग्रहं सदा । उपरागे चन्द्रसूर्योपप्लवे यथा-विषुवद्ग्रहसंक्रान्तिचन्द्रसूर्यसमागमे । विष्ट्यादिषु च योगेषु स्नानदानादि शस्यते । पूतनादौ यथासर्वज्वरहरो धूपो ग्रहाणां च विशेषतः । आदित्यादौ यथायात्यस्ताचलचुम्बिनीं परिणतिं देवो ग्रहग्रामणीः । विधुतुदे राहौ यथा-शोकग्रहग्रस्त इवाननेन्दुर्दुनोति नो देवि मनो नितान्तम् ॥५८४॥ ग्राहो ग्रहे जलचरे । ग्रहणं ग्राहः। बाहुलकाद् घन । गृह्णाति वा। "वा ज्वलादि" ५।१।६२ । इति णः। ग्रहे यथानितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयं ग्राहनिषक्तबाहुम् । जलचरे यथा-उद (न) ग्राहमुदन्वतो जलमतिकामति । अव
SR No.002279
Book TitleAnekarth Sangraha Satik Part 01
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1972
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy