________________
द्वितीयः काण्डः
__ (३३३) wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
निर्लोभनृपतौ प्राणवाते श्रेष्ठेऽग्रतः स्थितः । हविः सर्पिषि होतव्ये हिंसा चौर्यादिके वधे ॥५८२।। अहिः स वृत्रे वप्रे स्यादीहोद्यमवाञ्छयोः । कुहूर्नष्टेन्दुदर्श स्यात्कुणिते कोकिलस्य च ॥५८३॥
भिन्नाभिन्नो विपश्चिताम् ॥५८१॥ निर्लोभनृपतौ यथा-सन्मानसवासरसः सततं पद्मकनिलयतामाप्तः । त्वं शुद्धपक्षपाती सत्यं क्षितिपाल हंसोऽसि । प्राणवाते यया-हंसश्चरति कायेऽस्मिन् पञ्चधा व्याप्य सर्वतः। अग्रतः स्थित उत्तरपदस्थितः । श्रेष्ठे यथा-कविहंससेव्यमानक्रमाम्बुजा जयति भारतीदेवी । हविः सपिषि होतव्ये । हूयते हविः । “रुचि" (उ० ९८९) इति इस् । क्लीबे । सपिषि यथा-हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः । होतव्यमाने यथा-हविराजितं होतस्त्वया विधिवदग्निषु । हिंसा चौर्यादिके वधे । हिंसाहेतुत्वात् हिंसनं वा हिंसा । चौर्यं स्तेयम् आदिशब्दादसत्यादिपरिग्रहः। तत्र यथाहिंसा शून्यमयत्नलभ्यमशनम् । वधः प्राणव्यपरोपणम् । तत्र यथाहिंसया जायतेऽल्पायुः ।।५८२।। अथ हान्ताः। अहिः सर्प वृत्रे वप्रे। अंहते अहिः । “अम्भि कुण्ठि” (उ० ६१४) इति ई: नलोपश्च । सर्प स्त्रीपुंसः । अन्यत्र पुंसि । सर्प यथा-अहेरिव गणाद् भीतः सन्मानान्नरकादिव । वृत्रे यथा-वृषेव सोऽन्यैरहितापकारी । वप्रे केदारे यथा-गतं नीरमहेर्बहिः । वप्रे प्राकारे इति मंखः । स्यादीहोद्यमवाञ्छयोः । ईहनम् ईहा। उद्यमे यथा-उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि। वाञ्छायां यथा-धर्मार्थं यस्य वित्तेहा तस्यानीहा गरीयसी। पुंल्लिङ्गोऽपि। कुहूर्नष्टेन्दुदर्श स्यात्कुणिते कोकिलस्य च । कुहणि विस्मापने । कुहयते कुहूः।