________________
अनेकार्थसंग्रहः सटीकः
ध्यादिकासु च संख्यासु महावुत्सवतेजसी । मही भुवि नदीभेदे मोही मूर्छाविपर्ययौ ॥५८७।। लोहं कालायसे सर्वतैजसे जोङ्गकेऽपि च ।
वहो वृषस्कन्धदेशे वायौ वाहोऽश्वमानयोः ।।५८८।। पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः ।। ५८६।। व्यादिकासु संख्यासु यथा-बहुभिर्वसुधाभुक्ता राजभिः सगरादिभिः। महावुत्सवतेजसी । महति महः । उत्सवे यथा-सीता स्वयंग्रहम हैः सुभगं भविष्णुः। तेजसि यथा-ग्रहपतिमहवीची न्यञ्चिता शातमिश्रः । महीभुवि नदीभेदे। गौरादित्वाद् ङीः। भुवि यथा - आसीन्नाथपितामही तव मही । नदीभेदे यथा-मही न हीयतेऽम्बोधेः । मोहौ मूर्छाविपर्ययौ । मोहन मोहः। मूर्छायां यथा-अथ मोहपरायणा सती विवसा कामवधूर्विबोधिता। विपर्ययोऽविद्या तत्र यथा-न मुञ्चामः कामानहह गहनो मोहमहिमा ।।५८७।। लोहं कालायसे सर्वतैजसे जोङ्गकेऽपि च । लुनाति लूयते वा लोहम् । "लूगोहः” (उ० ५८६) इति हः । पुंक्लीब: कालायसे यथा-हरति श्यामिकां हेम्नो न लोहस्य हुताशनः । सर्वतैजसे यथा-रसोपविद्धा एव लोहधातवः । जोङ्गकम् अगरु। तत्र. यथा-स्वलेहिकार्तस्वरपद्मपत्रैरानर्च गौरी सशरं पिनाकम्। वहो वृषस्कन्धदेशे वायौ। वहन्त्यनेनेति वहः । “गोचर संचर" ५।३।१३१। इति घः । वृषस्कन्धदेशे यथामिथ्यैव जातः स जनो वहे गडरिवालसः। गन्धवहैकादेशेन सत्यभामायां भामाशब्दवद् वायौ वहशब्दः । आचरणवाहवर्णकवोढष्वपि मंखः । आचरणे यथा-न स्नेहेन न दानेन न मानेन न सेवया । केन वहेन वहन्ते खला इति न निर्णयः । वाहे तुरगे यथा-बहु वहहेषितबंहितगहने सैन्ये समन्ततः प्रसृते । क्व भवेदरिर्वराको गोमाय प्रायतां जातः । वर्णके