________________
द्वितीयः काण्ड:
(३३७)
वृषे वाहा तु वाहौ स्याद् व्यूहो निर्वाणतर्कयोः । समहे बलविन्यासे सहः क्षमे बलेऽपि च ॥५८९॥ सहोव्यां सहदेवायां कुमारू नखभेषजे ।
मुद्गपण्यां च सिंहस्तु राशिभेदे मृगाधिपे ।।५९०॥ वर्णिकायां यथा-बहुप्रयोजनं वस्तु विविच्यारभते बुधः । वहं विना हि नादत्ते बहुमूल्यं विवेचकः। वोढरि यथा-विरहहुतवहेन प्रेयसी दह्यतेऽसौ। नदेऽपि यथा-तं ससिन्धुवहमाप महीं यः । वाहोऽश्वमानयोः । वृषे । वाह्यते वाहः । अश्वे यथा-इतीव वाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुद्धतं रजः । मानभेदे व्योमाख्ये यथा-मातुं वाहैः शक्यते नान्तरिक्षं वेत्तुं शक्यं नो मनो मानिनीनाम् ।।५८८।। वृषे यथा-खे खेलगामी तमुवाह वाहः । वाहा तु वाहौ स्यात् । यथा-शाम्यन्ति भोगेन न जातु कामा न वाहया वा सुतरः समुद्रः । व्यूहो निर्माणतर्कयोः । समूहे बलविन्यासे । व्युह्यते रच्यते व्यूहः । निर्माणे यथा-सकुट्टिमव्यूहनिगूहितार्थः। तर्क वितर्के यथाहिताहितव्यूहपरामनीषिणः । समूहे यथा-सर्वाङ्गीणवलीविलुप्तनयनव्यूहः कथं वर्त्तते । बलस्य सैन्यस्य चक्रादिरूपेण विन्यासो बलविन्यासः । यदाह-दण्डो मण्डलभोगौ चाप्युत्सन्नश्वावलो दृढः । व्यूहास्तेषां विशेषाः स्युश्चक्रव्यूहादयोऽपि च । तत्र यथा - लोकरिव महाकाव्यं व्यू हैस्तदभवद् बलम् । सहः क्षमे बलेऽपि च । सहते सहः । क्षमे वाच्यलिङ्गः । तत्र यथा-असहः स हि शीतस्य । बले पुक्लीबः। तत्र यथा-न सहेन स हीयते ।। ५८९।। सहोयाँ सहदेवायां कुमार्यां नखभेषजे । मुद्गपर्यां च । उर्त्यां यथा-सहैव सहते सर्वम् । शेष ओषधिवर्गः। सिंहस्तु राशिभेदे मृगाधिपे । श्रेष्ठे स्यादुत्तरस्थश्च ।