SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ (३३८) अनेकार्थसंग्रहः स्टीकः श्रेष्ठे स्यादुत्तरस्थश्च सिंही स्वर्भाणुमातरि । वासावृहत्योः क्षुद्रायां स्नेहः प्रेम्णि घृतादिके ॥५९१।। इत्याचार्यश्री हेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे द्विस्वरकाण्डो द्वितीयः ॥ हिनस्ति सिंहः । “हिसे: सिम च” (उ० ५८८) इति हः । अचि वा पृषोदरादित्वात्साधुः। राशिभेदे यथा-सिंहः पाणिपयोधिपावकमितैः । मृगाधिपे यथा-सरागं सारङ्गाः सह सहचरीभिर्विचरत । प्रचारः सिंहानामिह हि विधिना हन्त विहतः ।।५९०॥ उत्तरपदस्थः । श्रेष्ठे यथा-उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः। सिंही स्वर्भाणुमातरि वासावृहत्योः क्षुद्रायाम् । स्वर्भाणुमाता राहुमाता। तत्र यथा-सिंहिकासुतसंत्रस्तो भृगो मृगाङ्कमाश्रितः । जग्राह साश्रयं तत्र तमन्यः सिंहिकासुतः । वासा आटरूषक: । वृहती वार्ताकी। क्षुद्रा कण्टकारिका । स्नेहः प्रेम्णि घृतादिके । स्नेहनं स्निह्यतेऽनेन वा स्नेहः । पुंक्लीबः प्रेम्णि यथा - काष्ठागतस्नेहरसानु विद्धं द्वन्द्वानि भावं क्रियया विवक्र: । घृतादिके यथा-प्रदीपः स्नेहमादत्ते दशया ह्यन्तरस्थया। सौहार्देऽपि मंखः । यथा-तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकाशया दृशा ।। ५९१।। इत्याचार्यश्रीहेमचन्द्र विरचितायामनेकार्थकैरवाकर कौमुदीत्यभिधानायां स्वोपज्ञानेकार्थसंग्रहटीकायां द्विस्वरकाण्डो द्वितीयः परिपूर्णः ॥२॥ (ग्रन्थाग्रं ५५००)
SR No.002279
Book TitleAnekarth Sangraha Satik Part 01
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1972
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy