Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala
View full book text ________________
(३३४)
अनेकार्थसंग्रह सटीकः
ग्रहो प्रहणनिबन्धानुग्रहेषु रणोद्यमे । उपरागे पूतनावादित्यादौ विधुन्तुदे ॥५८४॥ ग्राहो ग्रहे जलचरे गुहः स्कन्दे गुहा पुनः ।
गह्वरे सिंहपुच्छयां च गृहा दारेषु समनि ॥५८५॥ "नृति शृधि" (उ० ८४४) इति किद्ः । स्त्रियाम् । नष्टेन्दुदर्शो नष्टचन्द्रा अमावास्या । वयोर्यथा-यशः प्रालेयांशुर्दिशिदिशि जगद्देव भवतस्तथायं दुरां किरति किरणश्रेणिमधुना । यथासमयं (यथा सर्व यं) राकामयसमयमालोक्य भुवनं कुहूशब्दो जातः पिकनिकरकण्ठकशरणः ॥५८३॥ ग्रहो ग्रहणनिर्बन्धानुग्रहेषु रणोद्यमे । उपरागे पूतनादावादित्यादौ विधुतुदे। ग्रहणं गृह्यते गृह्णाति वा ग्रहः। ग्रहणे यथा-तदपि न किल वालपल्लवाग्रग्रहपरया विविदे विदग्धसंख्याः(सख्या)। निर्बन्धे आसक्तौ यथाकोऽयं ग्रहस्तव विवेकवतोऽपि शंपासंपातकातरतरे तरूणीरतादौ । अनुग्रहे प्रसादे ग्रहशब्दः। सत्यभामायां भामाशब्दवत् । तत्र रणोद्यमे च यथा-त्वं देव कुर्याः समरे ग्रहं सदा । उपरागे चन्द्रसूर्योपप्लवे यथा-विषुवद्ग्रहसंक्रान्तिचन्द्रसूर्यसमागमे । विष्ट्यादिषु च योगेषु स्नानदानादि शस्यते । पूतनादौ यथासर्वज्वरहरो धूपो ग्रहाणां च विशेषतः । आदित्यादौ यथायात्यस्ताचलचुम्बिनीं परिणतिं देवो ग्रहग्रामणीः । विधुतुदे राहौ यथा-शोकग्रहग्रस्त इवाननेन्दुर्दुनोति नो देवि मनो नितान्तम् ॥५८४॥ ग्राहो ग्रहे जलचरे । ग्रहणं ग्राहः। बाहुलकाद् घन । गृह्णाति वा। "वा ज्वलादि" ५।१।६२ । इति णः। ग्रहे यथानितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयं ग्राहनिषक्तबाहुम् । जलचरे यथा-उद (न) ग्राहमुदन्वतो जलमतिकामति । अव
Loading... Page Navigation 1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392