Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala
View full book text ________________
(३३२)
अनेकार्थसंग्रहः सटोकः
स्रोतः प्रवाहेन्द्रिययोहंसोऽर्के मत्सरे च्युते । खगाश्वयोगिमन्त्रादिभेदेषु परमात्मनि ॥५८१॥
सहते सह तेन तरस्विना। युक्तस्यैकेनेत्यादि । ज्योतिषि दीप्तौ यथा-कः सहेत रवेः सहः । सहा हेमन्तमासयोः। हेमन्ते ऋतौ मासे मार्गशीर्षे च यथा-न सहसा सहसाकृतवेपथुः ॥५८०।। स्रोत: प्रवाहेन्द्रिययोः। स्रवति स्रोतः । "चुरीभ्यां तस्" (उ० ९७८) इति तस् । क्लीबे । प्रवाहे यथा-संसर्यन्त्या सपदि भवतः स्रोतसिच्छायया सा स्यादस्थोपगतयमुनासङ्गमे नाभिरामा। इन्द्रिये इन्द्रियद्वारे यथा-स्रोतसो मलिनीभावाद् व्याधिदेहे प्रवर्तते । करिकरेऽपि मंखः । यथा-स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः। नदीमात्रेऽपि यथा-स्रोतोमा भुवि परिणतां रन्तिदेवस्य कीर्तिम् । हंसोऽर्के मत्सरे च्युते । खगाश्वयोगिमन्त्रादिभेदेषु परमात्मनि । निर्लोभनृपतौ प्राणवाते श्रेष्ठेऽग्रतः स्थितः । हन्ति हंसः। “मा वा वदि" (उ० ५६४) इति सः । एकादशस्वर्थेषु । अर्के यथा-हंसोदये हसति पङ्कजराजिरेषा । मत्सरो द्वेषः । तत्र यथा-मुनौ विहंसे सरसीव शुष्के। अच्युते विष्णौ यथा - लक्ष्मीसूनतटोत्तंसं हंसं कंसनिसूदनम्। खगाश्वयोगिमन्त्रादिभेदेष्विति भेदशब्दः प्रत्येकमभिसम्बध्यते । तत्र खगभेदे यथा-स्वनति सलीलं हंसः पुच्छायासेन वायसोऽप्युच्चैः । अश्वभेदे यथा-तं हंसमारुह्य स राजहंसः । योगिभेदे यथा-श्रेष्ठः परमहंसानां सप्तर्षीणामिवाङ्-ि गराः । मन्त्रभेदे यथा-विन्यस्येद्विधिना शिष्ये हंसं वंशसमुद्भवे । आदिशब्दाद् ध्यानादिग्रहः। परमात्मनि यथा-अहं स इति हंसो यं
Loading... Page Navigation 1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392