Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala
View full book text ________________
(३३०)
अनेकार्थसंग्रहः सटीकः wwwwwwwwwwwwwwwwwwwwwwwwwwwwww
वपुः शस्ताकृतौ देहे व्यासो मुनिप्रपञ्चयोः । वासो वेश्मन्यवस्थाने वासा स्यादाटरूषके ॥५७८।। विद्वान् ज्ञात्मविदोः प्राज्ञे वेधा धातृज्ञविष्णुषु ॥ .
शंसा वचसि वाञ्छायां शिरो मूर्द्ध प्रधानयोः ॥५७९॥ मधुरम् । रत्ने यथा-मन्दभाग्या न पश्यन्ति रत्नगर्भावसुन्धराम् । अत्र हि वसूनि रत्नानि धारयति वसुन्धरा । वृद्धिनाम औषधं वृद्धयौषधम् । धने यथा-भुजसमाहितदिग्वसुना कृताः। ॥५७७।। वपुः शस्ता कृतौ देहे । उप्यते वपुः "रुद्यर्ति" (उ० ९९७)पति उस् । क्लीबे। शस्ताकृतौ शुभे आकारे यथा-वपुरेव तवाचष्टे भगवन् वीतरागताम् । देहे यथा-बभूव तस्याश्चतुरश्रशोभि वपुर्विभक्तं नवयौवनेन । व्यासो मुनिप्रपञ्चयोः । व्यासयति व्यस्यते वा व्यासः। मुनौ यथा-व्यासः क्षमाभृतां श्रेष्ठो वन्द्यः स हिमवानिव । प्रपञ्चे यथाप्रौढिाससमासौ च वासो वेश्मन्यवस्थाने । वसन्त्यत्र वसनं वा वासः । वेश्मनि यथा-दृश्यते कतिपयैः किल वासस्तादृशमखिलमही नगरं तत् । अवस्थाने यथा-एको वासः पत्तने वा वने वा । रतगृहेऽपि मंखः । यथा-शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्चनैः । वासा स्यादाटरूषके । वाति वासा । "मावावदि" (उ० ५६४) इति सः । स्त्रियाम् । आटरूषक औषधविशेषः ॥५७८।। विद्वान् ज्ञात्मविदोः प्राज्ञे । वेत्ति विद्वान् । "वा वेत्तेः क्वसुः" ५।२।३२। इति क्वसुः । वाच्यलिङ्गः। जानाति ज्ञो ज्ञाता । तत्र यथा-महिम्नः पारन्ते परमविदुषः । आत्मविदि यथा-विद्वान् दारसखः परं परिणतो नीवारमुष्टिं पचः। प्राज्ञे यथा-विद्वान् सर्वत्र पूज्यते । वेधा धातृज्ञविष्णुषु ।
Loading... Page Navigation 1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392