Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 354
________________ AAAAAAv द्वितीयः काण्डः ___ (३२९) गूथे रूपे वसुस्त्वग्नौ देवभेदे नृपे रूचि ॥ योक्त्रे शुष्के वसु स्वादौ रत्ने वृद्ध्यौषधे धने ॥५७७।। कालो हि वत्साद्यतिवाहनेन प्रश्रावितो दिव्यरसं प्रसूते । तर्णके यथा - यं सर्वशैलाः परिकल्प्य वत्सम वयस्तारुण्यबाल्यादौ खगे। वेत्ति वयः । “अस्” (उ० ९५२) इति अस्। क्लीबे। तारुण्ये यथा-गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् । बाल्यादौ यथा-आद्ये वयसि नाधीतं द्वितीये नाजितं धनम् । पक्षिणि यथा-रुतानि शृण्वन् वयसांगणोऽन्तेवासित्वमाप स्फुटमङ्गनानाम् । वर्चस्तु तेजसि । गूथे रूपे। वर्चते वर्चः। “अस्" (उ० ९५२) इत्यस् । तेजसि यथा-वर्चासि चर्चयतु सोऽचितपादपद्मः। ॥५७६।। गूथे यथा-रसासृग्मांसभेदोऽस्थिमज्जाशुक्रांत्रवर्चसाम् । रूपे यथा-यन्मदीयाः प्रजास्तत्र हेतुस्त्वद्ब्रह्मवर्चसाम् । वसुस्त्वग्नौ देवभेदे नृपे रुचि(रुचौ)। योक्त्रे शुष्के । वसन्त्यत्र वसुः। "भृ मृ त त्सरि" (उ० ७१६) इति उः। पुंसि । शुष्के पुंस्यजयः । क्लीबे गौडः । अग्नौ देवभेदे च यथावसूपमातस्य वसूनि मेदिनी। नृपे राजविशेषे यथा-असत्यवचनात् प्राप नरकं वसुभूपतिः। रुचि दीप्तौ यथा - निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका । योक्त्रे यथा-व्यवस्था हरितां कुर्वन् वसुभिर्विततैः शुभाम् । प्रातस्तूनोऽरुणो देवो भास्वान् पातु स सारथिः । शुष्कम् आस्पानम् । देवमात्रेऽपि मंखः । यथा-रक्षाहेतोर्नव शशिभृता वासवीनां चमूनाम् । अत्र हि वासवस्येमा इति ईयप्राप्तेरयं शब्दोऽनुचितः स्यादिति वसूनां देवानामिमा इति व्याख्येयम् । वसु स्वादौ रत्ने वृद्ध्यौषधे धने । स्वादौ वाच्यलिङ्गः। रत्नादिषु क्लीबे। स्वादु

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392