Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 353
________________ (३२८) अनेकार्थसंग्रहः सटीकः भाषा शृङ्खलके वत्सा उरस्तुग्वर्षतर्णकाः। वयस्तारुण्यबाल्यादौ खगे वर्चस्तु तेजसि ॥५७६।। रहः। अस् क्लीबे । गुह्यमत्रैकान्तम् । तत्र यथा-रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः। रते यथा-एवमालि निगृहीत साध्वसं शंकरो रहसि सेव्यतामिति । तत्त्वे यथा-को वा शंसति शिष्येभ्यः स्वगुरोविरहे रहः। अयमव्ययमपि । रजो रेणुपरागयोः। स्त्रीपुष्पे गुणभेदे च । रञ्जति रजः। "मिथिरञ्ज्युषि" (उ० ९७१) इति किदस् । क्लीबे। रेणौ यथा-रजोभिः स्यन्दनोद्धृतरस्पृष्टालकवेष्टनौ । परागः पुष्परेणुस्तत्र यथा-भूरेणुदिग्वान् नवपारिजातमालारजोवासितबाहुमध्याः । स्त्रीपुष्पे यथा-अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः। गुणभेदे यथा-रजो जुषे जन्मनि । रज इत्यकारान्तोऽपि । रासः क्रीडासु गोदुहाम् । भाषाशृङ्खलके। रासृड् शब्दे रासनं रासः । गोदुहां गोपालानां क्रीडा। यदाह-अनेकनर्तकीयोज्यं चित्रतालतयान्वितम्। आचतुः षष्ठि युगलाद्रासकं मसृणोद्वते । तत्र यथागोपीरासकवासितैकहृदयो गोष्ठे हरिः क्रीडति ॥५७५।। भाषाणां मागध्यादीनामेकान्तरितो न्यासः शृङ्खला कारत्वाच्शृङ्खलकम् । वत्सा उरस्तुग्वर्षतर्णकाः। वदति उद्यते वा वत्सः । "मावावद्यमि" (उ० ५६४) इति सः । उरसि पुंक्लीबः । अन्यत्र पुंसि । उरसि यथा - श्रीवत्सः कच्छवासी स भवतु भवतां खेदविच्छेदहेतुः । अत्र हि श्रीवत्से वक्षसि यस्य स श्रीवत्सो हरिः । तुक् अपत्यम् । तत्र यथा-वत्सेन रामभद्रेण ममादेशं विधित्सता। तुगित्युपलक्षणम् । तेन लघुभ्रात्रादावपि । यथा-मद्दोर्दण्डभराक्रान्तं वत्सलक्ष्मण लक्षयः । वर्षे वत्सरे यथा--

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392