Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 351
________________ -- (३२६) अनेकार्थसंग्रह सटीक: wwwwww wwwwwww बहिः कुशेऽग्नौ भासस्तु भासि गृद्धशकुन्तयोः । महस्तेजस्युत्सवे च मिसिर्मास्यजमोदयोः ॥५७२।। शतपुष्पामधुर्योश्च मृत्सा वासी सुमृत्तिका । रसः स्वादे जले वीर्य शृङ्गारादौ विषे द्रवे ॥५७३॥ रसज्ञः । प्रसूरश्वा जनन्यपि । प्रसूते प्रसूः । स्त्रियाम्। अश्वेति सगर्भा वडवा तस्यां यथा-न प्रसूहिनी या स्यात् । जनन्यां यथा-भिन्नप्रसूषु पुत्रेषु तथैकपितृकेषु च ।।५७१।। बहिः कुशेऽग्नौ । बृंहति बहिः । वंहि वृहेर्नलुक् च (उ० ९९०) इति इस् । कुशे पुंक्लीबः । अग्नौ पुंसि । कुशे दर्भे यथा-नियमविधिजलानां बहिषां चोपनेत्री। अग्नौ यथा-बहिर्मुखास्तहि लिहन्तु हव्यम् । अत्र हि बहिरग्निर्मुखं येषां ते बहिर्मुखा देवाः। भासस्तु भासि गृद्मशकुन्तयोः । भासते भासः । भासि दीप्तौ यथा-भासै सितदिग्मुखोऽयमुदितो देवः स्वयं भास्करः। गृध्रो दूरदृक् । शकुन्तः पक्षिभेदः। महस्तेजस्युत्सवे च। मह्यते महः । "अस्" (उ० ९५२) इति अस्। क्लीबे। तेजसि यथाअस्मिश्चन्द्रमसि प्रसन्नमहसि । उत्सवे यथा-सुसितवसनालं. कारायां कदाचन कौमुदी महसि सुदृशि स्वैरं यान्त्यागतोऽस्तमभूद्विधुः । मिसिर्मास्यजमोदयोः। शतपुष्पामधुर्योश्च । मिश मशरोषे च । मिश्यते मिसिः। “नाम्युपान्त्य" (उ० ६०९) इति किदिः। पृषोदरादित्वाद् दन्त्यः सकारः। स्त्रियाम् । चतस्रोऽप्योषधयः ॥५७२॥ मृत्सा वासो सुसृत्तिका। मृदंस्यति मृत्सा प्रशस्तामृदेव वा । “सस्नौ प्रशस्ते" ७।२।१७२ इति स्वार्थे सः । वासी तक्षोपकरणम् । सुमृत्तिकायां यथा-निःशल्ये संस्कृते तत्र

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392