Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 352
________________ द्वितीयः काण्डः (३२७) NNNNN चोले रागे देहधातौ तिक्तादौ पारदेऽपि च । रसा तु रसनापाठासल्लकीक्षितिकङ्गषु ।।५७४॥ रहो गुह्य रते तत्वे रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च रासः क्रीडासु गोदुहाम् ॥५७५॥ मृत्सारचितवेदिकः। रसः स्वादे जले वीर्ये शङ्गारादौ विषे द्रवे । चोले रागे देहधातौ तिक्तादौ पारदेऽपि च । रसनं रस्यते वा रसः । एकादशस्वर्थेषु । वीर्ये शृङ्गारादौ विषे रागे तिक्तादौ च पुंक्लीबः । शेषेषु पुंसि । स्वादे यथा-स्कन्दस्य मातुः पयसां रसज्ञः। जले यथा-सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः। वीर्ये यथा-यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । शृङ्गारादौ यथा-इत्थं सर्वरसात्मकः पशुपतिर्भूयात्सतां भूतये । विषे यथा - तीक्ष्णरसदान् भिक्षुकाञ्च रिपौ प्रयुजीत। द्रवे यथा-चातुर्जातकसंस्कृतोऽनुशनकैरिक्षो रसः पीयताम् ।।५७३।। चोलो गन्धरसस्तत्र सत्यभामायां भामाशब्दवदेकदेशेन रसशब्दः। रागोऽनुरक्तिस्तत्र यथा - रसेन शय्यां स्वयमभ्युपागता कथा जनस्याभिनवा वधूरिव । देहधातौ यथा-रसासृक्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । तिक्तादयस्तिक्तस्वादुम्ललवणोष्णकषायाः। तत्र यथा-षट्रसाः किल वैद्येषु भरतेऽष्टौ नवापि वा । पारदे यथा-रसोपविद्धा इव लोहधातवः। चर्वणेऽपि मंखः । यथा-आनन्दसान्द्रो रसः । रसा तु रसनापाठासल्लकीक्षितिकङ्गषु । पञ्चस्वर्थेषु स्त्रियाम् । रसना जिह्वा तत्र यथा-रसया रसयन्त्वमी। पाठा ओषधिभेदः सल्लकी वृक्षभेदः। क्षितौ पृथिव्यां यथा - फणावतस्त्रासयितुं रसाया मूलं विवक्षन्निव पन्नगारिः । कङ्गर्धान्यभेदः ॥५७४॥ रहो गुह्ये रते तत्वे । रहति

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392