________________
द्वितीयः काण्डः
(३२७)
NNNNN
चोले रागे देहधातौ तिक्तादौ पारदेऽपि च । रसा तु रसनापाठासल्लकीक्षितिकङ्गषु ।।५७४॥ रहो गुह्य रते तत्वे रजो रेणुपरागयोः ।
स्त्रीपुष्पे गुणभेदे च रासः क्रीडासु गोदुहाम् ॥५७५॥ मृत्सारचितवेदिकः। रसः स्वादे जले वीर्ये शङ्गारादौ विषे द्रवे । चोले रागे देहधातौ तिक्तादौ पारदेऽपि च । रसनं रस्यते वा रसः । एकादशस्वर्थेषु । वीर्ये शृङ्गारादौ विषे रागे तिक्तादौ च पुंक्लीबः । शेषेषु पुंसि । स्वादे यथा-स्कन्दस्य मातुः पयसां रसज्ञः। जले यथा-सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः। वीर्ये यथा-यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । शृङ्गारादौ यथा-इत्थं सर्वरसात्मकः पशुपतिर्भूयात्सतां भूतये । विषे यथा - तीक्ष्णरसदान् भिक्षुकाञ्च रिपौ प्रयुजीत। द्रवे यथा-चातुर्जातकसंस्कृतोऽनुशनकैरिक्षो रसः पीयताम् ।।५७३।। चोलो गन्धरसस्तत्र सत्यभामायां भामाशब्दवदेकदेशेन रसशब्दः। रागोऽनुरक्तिस्तत्र यथा - रसेन शय्यां स्वयमभ्युपागता कथा जनस्याभिनवा वधूरिव । देहधातौ यथा-रसासृक्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । तिक्तादयस्तिक्तस्वादुम्ललवणोष्णकषायाः। तत्र यथा-षट्रसाः किल वैद्येषु भरतेऽष्टौ नवापि वा । पारदे यथा-रसोपविद्धा इव लोहधातवः। चर्वणेऽपि मंखः । यथा-आनन्दसान्द्रो रसः । रसा तु रसनापाठासल्लकीक्षितिकङ्गषु । पञ्चस्वर्थेषु स्त्रियाम् । रसना जिह्वा तत्र यथा-रसया रसयन्त्वमी। पाठा ओषधिभेदः सल्लकी वृक्षभेदः। क्षितौ पृथिव्यां यथा - फणावतस्त्रासयितुं रसाया मूलं विवक्षन्निव पन्नगारिः । कङ्गर्धान्यभेदः ॥५७४॥ रहो गुह्ये रते तत्वे । रहति