________________
(३२८)
अनेकार्थसंग्रहः सटीकः
भाषा शृङ्खलके वत्सा उरस्तुग्वर्षतर्णकाः। वयस्तारुण्यबाल्यादौ खगे वर्चस्तु तेजसि ॥५७६।।
रहः। अस् क्लीबे । गुह्यमत्रैकान्तम् । तत्र यथा-रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः। रते यथा-एवमालि निगृहीत साध्वसं शंकरो रहसि सेव्यतामिति । तत्त्वे यथा-को वा शंसति शिष्येभ्यः स्वगुरोविरहे रहः। अयमव्ययमपि । रजो रेणुपरागयोः। स्त्रीपुष्पे गुणभेदे च । रञ्जति रजः। "मिथिरञ्ज्युषि" (उ० ९७१) इति किदस् । क्लीबे। रेणौ यथा-रजोभिः स्यन्दनोद्धृतरस्पृष्टालकवेष्टनौ । परागः पुष्परेणुस्तत्र यथा-भूरेणुदिग्वान् नवपारिजातमालारजोवासितबाहुमध्याः । स्त्रीपुष्पे यथा-अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः। गुणभेदे यथा-रजो जुषे जन्मनि । रज इत्यकारान्तोऽपि । रासः क्रीडासु गोदुहाम् । भाषाशृङ्खलके। रासृड् शब्दे रासनं रासः । गोदुहां गोपालानां क्रीडा। यदाह-अनेकनर्तकीयोज्यं चित्रतालतयान्वितम्। आचतुः षष्ठि युगलाद्रासकं मसृणोद्वते । तत्र यथागोपीरासकवासितैकहृदयो गोष्ठे हरिः क्रीडति ॥५७५।। भाषाणां मागध्यादीनामेकान्तरितो न्यासः शृङ्खला कारत्वाच्शृङ्खलकम् । वत्सा उरस्तुग्वर्षतर्णकाः। वदति उद्यते वा वत्सः । "मावावद्यमि" (उ० ५६४) इति सः । उरसि पुंक्लीबः । अन्यत्र पुंसि । उरसि यथा - श्रीवत्सः कच्छवासी स भवतु भवतां खेदविच्छेदहेतुः । अत्र हि श्रीवत्से वक्षसि यस्य स श्रीवत्सो हरिः । तुक् अपत्यम् । तत्र यथा-वत्सेन रामभद्रेण ममादेशं विधित्सता। तुगित्युपलक्षणम् । तेन लघुभ्रात्रादावपि । यथा-मद्दोर्दण्डभराक्रान्तं वत्सलक्ष्मण लक्षयः । वर्षे वत्सरे यथा--