________________
(३२४)
अनेकार्थसंग्रहः सटोकः
नवनीते प्रभावेऽग्नौ दासो धीवरभृत्ययोः ।
वृषले दानपात्रे च दासी झिण्टयपि चेद्यपि ॥५६९॥ श्यानसन्तति । न तु खण्डेन्दुचूडस्य प्रियाविरहजं तमः । तरो जवे बले । तरत्यनेन तर। “अस्” (उ० ९५२) इति अस् । क्लीबे द्वयोर्यथा-कैलासनाथं तरसा जिगीषुः । त्रासो भये मणिदोषे । त्रसनं त्रस्यत्यस्माद्वा त्रासः। भये यथाचक्षुर्यदीयमपहत्य जनस्य चेतस्त्रासादिव श्रवणकन्दरदुर्गमेति । मणिदोषे यथा-अत्रासामणयो धार्याः । तेजस्त्विट्रेतसोर्बले । नवनीते प्रभावेऽग्नौ । तेजयति तेजः । “अस्' (उ० ९५२) इति अस् । क्लीबे । त्विषि दीप्तौ यथा-तत्तेजः प्रथमोद्भवं भ्रमकरं शौरं चिरं पातु वः। रेतसि शुक्रे यथा-अत्यादित्यं हुतवहमुखे संभृतं तद्वितेजः। बले यथा-तेजसां हिन वयः समीक्ष्यते ॥५६८॥ नवनीते यथा-धेनुः स्तोकपयस्काऽपि सतेजस्का प्रशस्यते । प्रभावे प्रतापे यथा-इतस्ततो रूढतृणाङ्करेषु तेजो विषह्यं रिपुमन्दिरेषु । अग्नौ यथा-तेजसः सपदि राशिरुच्छ्रितः प्रादुरास किल वाहिनीमुखे । असहनत्वेऽपि मंखः । यद्भरतःअधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेऽप्यसहनं बत्तेजः समुदाहृतम्। तत्र यथा-तेजः क्षमावानैकान्तः कालज्ञस्य महीपतेः। दासो धीवरभृत्ययोः। वृषले दानपात्रे च । दास्यतेऽस्मै दासः । धीवरे यथा-अपिपोतकृतावासैसैराशा विजज्ञिरे । भृत्ये यथा-अद्यप्रभृत्यनवताङ्गि तवास्मि दासः । वृषले शूद्रे यथा-कि रे दास तपस्यसि । दानपात्रे यथा - ददौ दासाय वासांसि नृवर्यः सूर्यपर्वणि । दासी झिण्ट्यपि चेद्यपि (चेट्यपि) गौरादित्वाद्डी: । झिण्टी वृक्षभेदः। चेद्यां यथा-निःशेषागार