________________
द्वितोयः काण्डः
wwwwwwwwwwwwwwwwwwwwww
प्रकाशे दृशि नक्षत्रे तपः कृच्छादिकर्मणि । धर्मे लोकप्रभेदे च तपाः शिशिरमाघयोः ॥५६७॥ तमो राहौ गुणे पापे ध्वान्ते तरो जवे बले । त्रासो भये मणिदोषे तेजस्त्वितसोर्बले ॥५६८॥
यथा-ज्योति?तितविष्टपं विजयते राजीव संजीवकम् ।।५६६।। प्रकाशस्तेजः। तत्र यथा-कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने । दृगत्र कनीनिका मध्यम् यन्मयः। तारानेत्र त्रिभागः स्याज्ज्योतिस्तत्यं च मांशकम् । नक्षत्रे यथा-ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम् । तपः कृच्छ्रादि कर्मणि। धर्मे लोकप्रभेदे च। तप्यते तपः । “अस्' (उ० ९५२) इति अस । क्लीबे । कृच्छ्रे सान्तपनम् आदिशब्दात् चांद्रायणादिव्रतम् । तत्र यथा - तपः क्व वत्से क्व च तावकं वपुः । धर्मे यथा-विनाप्यस्मदलंभूष्णरिज्यायै तपसः सुतः । लोकप्रभेदो जनो लोकाद् द्वितीयः। तपाः शिशिरमाघयोः। शिशिरे पुंसि । माघे पुंक्लीबः। शिशिरे यथा-ग्रीष्मे पञ्चाग्नितपसा तपस्यम्भोऽन्तरश्रिता। त्वया सायुज्यमाप्येत पार्वत्यत्र निदर्शनम् । माघे यथा - महतामपि चेतांसि लोभो मोहश्च नाशयेत् । तपास्तपस्यश्च यथा-सरसां कमलान्यहो ।।५६७।। तमो राहौ गुणे पापे ध्वान्ते । ताम्यन्ति अनेन तमः। "अस्” (उ० ९५२) इति अस् । राहौ पुंक्लीबः। अन्यत्र क्लीबे। राहौ यथा-जनसे तमसेवेन्दुः । गुणे यथा-रजोजुषे जन्मनि सत्ववृद्धये स्थितौ प्रजानां प्रलये तमःस्पृशे । पापे यथा--कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसा सरयूतटाः। ध्वान्ते यथा-क्षपातमस्काण्डमलीमसं नभः। शोकेऽपि मंखः। यथा-अथान्धकारमाशानां शशामा