________________
(३२२)
अनेकार्थसंग्रहः सटीकः
चास इक्षुपक्षिभेदो'छन्दः पद्येच्छयोः श्रुतौ । ज्यायान् वृद्धे प्रशस्ये च ज्योतिर्वह्निदिनेशयोः ॥५६६।।
कीदृशी। विकलवाक् वाग्विकल: । विकलावागित्यन्ये । गुत्सः स्तम्बगुलुञ्छयोः। हारभेदे ग्रन्थिपणे । गुध्यते गुत्सः । “गुधि गृधेस्त च” (उ० ५६८) इति कित् सः । चतुर्षु अर्थेषु । स्तम्बे गुलुञ्छे च यथा-वत्सो जिघत्सति बलादपि शालिगुत्सम् । हारभेदो द्वात्रिंचल्लताहारः। ग्रन्थिपणं सुगन्धितृणविशेषः । गोसो बोलविभातयोः। गांस्यति गोसः। बोलो गन्धरसः । विभाते यथा-गोसेनासेविता विद्या न भुक्तं मध्यवासरे ॥५६५।। चास इक्षुपक्षिभेदोः। चष् हिंसायाम् । चष्यते चासः । घञि पृषोदरादित्वात् सत्वम् । द्वयोर्यथा - दृष्टश्चासः शुभावासः । छन्दः पद्येच्छयोः श्रुतौं। छादयति छन्दः । “छदि वहिभ्यां छन्दोधौ च" (उ० ९५४) इत्यस् । क्लीबे। पद्यं गायत्र्यादि बन्धः । तत्र यथा-इहच्छन्दो मात्रश्रुतिरचितदुःशिक्षितधियः । इच्छायां यथा-मूर्ख छन्दोऽनुवृत्या च । इच्छायामकारान्तोऽपि । श्रुतौ वेदे यथा - छान्दसाश्चर्चयन्ति यत् । ज्यायान् वृद्ध प्रशस्ये च। अतिशयेन वृद्धः प्रशस्यो वा ज्यायान् । "गुणाङ्गाद्" ७ । ३।९। इति ईयसौ ज्यायानिति साधुः । वाच्यलिङ्गः। वृद्धे यथा-ज्यायान् दाशरथिर्बभञ्ज रहितज्यायासमैशं धनुः। प्रशस्ये यथा-ज्यायांसमनयोविद्याद्यस्य स्याच्छ्रोत्रियः पिता। ज्योतिर्वह्निदिनेशयोः । प्रकाशे दृशि नक्षत्रे । द्योतते ज्योतिः। “धुतेरादेश्च जः” (उ० ९९१) इति इस् । पञ्चस्वर्थेषु क्लीबे। गौडस्तु भद्योतदृष्टिषु क्लीबे भास्करवह्नयोर्नेत्याह । वह्नौं यथा-धूमज्योतिः सलिलमरुतां सन्निपातः क्व मेघः। दिनेशे