________________
. द्वितीयः काण्डः
(३२१)
ओकास्त्वाश्रयमात्रे स्यात्कंसस्तैजसमानयोः । पानपात्रे दैत्यभेदे कासूः शक्त्यायुधे रुजि ॥५६४।। बुद्धौ विकलवाचि स्यात्गुत्सः स्तम्बगुलुञ्छयोः । हारभेदे ग्रन्थिपणे गोसो बोलविभातयोः ॥५६॥ .
(उ० ९५९) इत्यस् । पञ्चस्वर्थेषु क्लीबे दीप्तौ कान्तौ यथा-रूपं तदोजस्वितदेववीर्यम् । प्रकाश आलोकः । तत्र बले च यथाअधितिष्ठति विश्वमोजसा स विवस्वानिव मेदिनीपतिः । अवष्टम्भे यथा-रूद्रौजसा तु प्रहृतं त्वयास्याम् । धातूनां रसादीनां तेजस्तत्र यथा-रोगार्ता हि निरोजसः। ओकस्तु सद्मनि । उच्यत्योकः । "उच्यञ्चेः कच" (उ० ९६५) इति अस् । क्लीबे यथा-तपस्विनः स्थाणुवनौकसस्तामाकालिकों वीक्ष्य मधुप्रवृत्तिम् ॥५६३॥ ओकास्त्वाश्रयमात्रे स्यात् । आश्रयमात्रे वर्तमान ओकः शब्दः पुंक्लीबः। तत्र यथा-निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः। कंसस्तैजसमानयोः । पानपात्रे दैत्यभेदे । काम्यते कामयते वा कंसः । “मावा वदि" (उ० ५६४) इति सः। दैत्यभेदे पुंसि । अन्यत्र पुंक्लीबः । तैजसं कांस्यधातुः । तत्र यथा-कसेषु हंसः परमो न भुङ्क्ते । मानं हिरण्यमानविशेषः । पानपात्रे यथा-पीयूषकंसस्त्रिदिवोकसां शशी। दैत्यभेदे यथा-करोति कंसादिमहीभृतां वधाज्जनोमृगाणामिव यत्तव स्तवम् । कासूः शक्त्यायुधे रुजि । बुद्धौ विकलवाचि स्यात् । कसति कासूः। “कसिपद्यादिभ्यो णित्" (उ० ८३५) इति ऊः । चतुर्षु अर्थेषु । विकलवाचि वाच्यलिङ्गः। अन्यत्र स्त्रियाम् । शक्तिनाम्नि आयुधे यथा-कासूभिरेवाशु रिपून्निराशुः । रुक् रोगभेदः ॥५६४।। बुद्धौ यथा-कासः कस्यापि