SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ (३२०) अनेकार्थसंग्रहः सटोकः wwwwwwwwwwwwwwwwwww wwwwwwwwwwwwwwwwwwwwww उरो वक्षसि मुख्ये स्यादोजो दीप्तिप्रकाशयोः । अवष्टम्भे बले धातुतेजस्यौकस्तु समनि ॥५६३॥ अगत्यनेन आगः। वस्त्यगिभ्यां णित् (उ० ९७०) इत्यस् । एति एनः। अर्तीणभ्यां नस् (उ० ९७९) एनोवदिति आगः शब्द: एनः शब्दश्चेत्यर्थः । द्वावपि क्लीबे। अचे पापे यथाअभ्यर्णमागस्कृतमस्पृशद्भिः । अगायाह्नामिनोसोव्यपनयतुतरामेनसामासनानि । मन्तौ अपराधे यथा-निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषलोलचक्षुषः। एनांसि मिथ्येव निवेद्य नीतः । स वैमनस्यपि शुनैः प्रभुः। आशीहितैषणे। उरगस्य च दंष्ट्रायाम् । आशासनमाशीः । आशंसति हिनस्ति वा । पृषोदरादित्वात् । स्त्रियाम् । हितैषणे हिताशंसायां यथा-अमोघाः प्रतिगृह्णन्तावानुपदमाशिषः। उरगदंष्ट्रायां यथा-आशीस्तालुगता दंष्ट्रा यया विद्धो न जीवति। आशीविष इत्यत्र पृषोदरादित्वात् सलोपः। आशिशब्दाद्याम् । आशीति ईकारान्त इत्यन्ये । उषः संध्याप्रभातयोः। उषति उषः। "मिथि रज्युषि" (उ० ९७१) इति किदस् । संध्यायां स्त्रीक्लीबः । प्रभाते क्लीबः संध्यायां यथा-उषसि यासि न कान्तगृहं यदि । प्रभाते यथाउपसि सर इव प्रफुल्लपद्मम् ॥५६२।। उरो वक्षसि मुख्ये स्यात् । अर्यते उरः । "अर्तेरुराशौ च" (उ० ९६७) इत्यस् । क्लीबे वक्षसि यथा-उरसि निहितस्तारो हारः कृता जघने घने । मुख्य प्रधाने यथा-तान् सर्वान् वरिवस्यति त्रिभुवने मोरसान्येव ते। अत्र हि मानामुरांसि मोरसानि । "उरसोऽग्रे" ७ । ३ । ११४ । इति समासान्तः। ओजो दीप्तिप्रकाशयोः। अवष्टम्भे वले धातुतेजसि । ओषति ओजः। "उषेर्ज च"
SR No.002279
Book TitleAnekarth Sangraha Satik Part 01
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1972
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy