________________
द्वितोयः काण्डः __ (३१९) शेषा निर्माल्यदाने स्याच्छोषः शोषणयक्ष्मणोः । *अर्चिर्मयूखशिखयोरदोऽत्र च परत्र च ॥५६१॥ आगः स्यादेनोवदघे मन्तावाशीहितैषणे ।
उरगस्य च दंष्ट्रायामुषः संध्याप्रभातयोः ॥५६२॥ यथा-निशम्य ताः शेषगवीरभिधातुमधोक्षजः। उपयुक्ततरे यथामन्दाकिन्याः पयः शेषं दिग्वारण दिग्धारिण)मदाविलम् ।।५६०॥ शेषा निर्माल्यदाने स्यात् । यथा-तथेति शेषामिव भर्तुराज्ञामादाय मुद्धर्ना मदनः प्रतस्थे । शोषः शोषणयक्ष्मणोः । शोषण शुष्यत्यनेन वा शोषः। शोषणे यथा-शफरी ह्रदशोषविहला प्रथमा वृष्टिरिवान्वकम्पत । यक्ष्मणि क्षयरोगे यथा-अत्यका सुरतश्लेषः शोषदोषाय कामिनाम् । अथ सान्ताः। अचिर्मयूखशिखयोः। अर्च्यतेऽनयाचिः। "रुचि" (उ० ९८९) इति इस् । स्त्रीक्लीबः। मयूखे यथा-प्रशमादर्चिषामेतदनुदगीर्णसुरा युधम् । शिखा ज्वाला तत्र यथा – शृणु येन स कर्मणा गतः शलभत्वं हर लोचनार्चिषाम् । अदोऽत्र च परत्र च। . अद्यते दृशा मनसा च तदित्यदः । “अदेरन्ध च वा” (उ० ९६३) इति अस् । वाच्यलिङ्गः। अत्र एतदर्थे यथा-चपलाजनं प्रति न चोद्यमदः परत्र । परस्मिन् विप्रकृष्टेऽर्थे यथा-इदमपचितं ध्वान्तं दूराददः प्रविजृम्भते सपदि कनकक्षोदव्यूहप्रवाहनिभं नभः । अत्रेदमिति सन्निकृष्टं ध्वान्तं परामृश्य तदपेक्षया विप्रकृष्ट नभसि वर्तते । आमुष्मिकार्थसंसिद्ध्यै बद्धकक्षा हि साधवः । इत्यादौ सन्निकृष्टेह लोकापेक्षया विप्रकृष्टे परलोकेऽपि परत्र द्वारेण वर्तते। अनुपदेशेऽपि । तथा च-अनुग्रहानुपदेशेऽन्तरदः ३ ।५ । इत्युक्तम् ।।५६१॥ आगः स्यादेनोवदवे मन्तौ ।
- स्कन्धे विभागे स्यादसिः खड्गे नदीभिदि । अर्चि।