________________
(३१८)
अनेकार्थसंग्रहः सटीकः
vvvvvvvv
पुराशिभेदयोः शृङ्ग्यां वासके शुक्रलेऽपि च ॥ श्रेष्ठ स्यादुत्तरस्थश्च वृषो तु: प्रतिविष्टरे ॥५५९।। वृषा पुनः कपिकच्छ्वां शुषिः शुषिरशोषयोः ।
शेषोऽनन्ते वधे सीरिण्युपयुक्ततरेऽपि च ॥५६०॥ पुंभेदे यथा-शशो वृषोऽश्व इति लिङ्गतो नायकभेदाः । शृङ्गी
ओषधिः वासक आटरूषकः शुक्रल: शुक्राधिकः । तत्र · यथात्यागी वृषः सुभग इत्यपि लब्धशब्दः । उत्तरस्थ इति उत्तरपदस्थः वृषशब्दः । श्रेष्ठे यथा-कविवृषनिषेव्यो विजयते । दानवेऽपि यथा-कृतगोपवधूरतेनतो वृषमुने नरकेऽपि सम्प्रति । प्रतिपत्तिरधः कृतैनसो जनताभिस्तव साधु वर्ण्यते । वृषी तु व्रतिविष्टरे । बुवन्तः सीदन्त्यस्यां वृषी। पृषोदरादित्वात् ।
यथा-वृषीष्वेवोच्च गदैः स्थितम् ॥५५९॥ वृषा पुनः कपि- कच्छ्वाम् । कपिकच्छूलताभेदः। शुषिः शुषिरशोषयोः । शुष्यति , शोषणम् शुषिः । “नाम्युपान्त्य" : ५।१।५४॥ इति किदिः ।
स्त्रियाम । शुशिरे छिद्रे यथा-वंशादिकं तु शुषिरम् अत्र हि शुषिछिद्रं विद्यतेऽस्येति मध्वादित्वाद् रः । · शोषे यथावि(वे)शंतः शुषिशोकार्ताः सूकराः शश्वसुर्घनम् । अवग्रहदहत्सस्यामहान्त इव कर्षकाः । वलेपि मंखः । यथा-भ्रश्यच्छुशिनिरुत्साहमयासीत् तत्र तलम् । शेषोऽनन्ते वधे सीरिण्युपयुक्ततरेऽपि च । शिनष्टि शिष्यते वा शेषः । शिष् हिंसायामित्यस्य वो भावे । लिष्यति : वा। "श्लिषेः शे च" (उ० ५४३) इति षः । उपयुक्तेतरे पुंक्लीबः । अनन्ते नागराजे यथा-व्यादिश्यते भूधरतामवेक्ष्य कृष्णेनदेहोद्वहनाय शेषः । वधे यथा- न मेषशेषः शिवतातिशेषः। सीरिणि बलभद्रे