________________
द्वितोयः काण्ड:
(३१७)
vvvvvvvvvvvv
वर्षवरेऽपि वर्षा तु प्रावृष्यथ विषं जले ॥
क्ष्वेडे विषा त्वतिविषा वृषो गव्याखुधर्मयोः ॥५५८।। न्तरूक्षाभिनिवेशमीशम् । लक्षं ब्याजशरव्योः । संख्यायामपि । लक्ष्येतऽनेन लक्षम् । व्याजे पुंक्लीबः। शरव्ये क्लीबः। संख्यायां स्त्री क्लीबः । व्याजे यथा-सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् । रोमाञ्चलक्षेण स गात्रयष्टिं भित्वा निरक्रामदरालकेश्याः । शरव्यं वेध्यम् । संख्या दशसहस्रीलक्षणा । तयोर्यथा-लब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः । वर्षस्तु समा द्वीपांशवृष्टिषु । वर्षवरेऽपि । वृष्यते वर्षति वर्षणं वा वर्षः। वृणोति वा । "वृ कत" (उ० ५४०) इति षः वर्षवरे पुंसि । शेषेषु पुंक्लीबः। समायां वत्सरे यथा-जीवेद्वर्षशत्रं कोऽत्र यः फलान्यस्य पश्यति । द्वीपांशे यथा-एतदूढगुरुभारभारतं वर्षमद्य मम वर्तते वशे । वृष्टी यथा-रसन्नरोदीद्मृशमम्बुन्तु वर्ष व्याजेन यस्याबहिरम्बुवाहः ।।५५७॥ वर्षवरः षष्ठः। तत्र वर्षशब्दो भीमसेनो भीमवत् । वर्षा तु प्रावृषि वर्षन्ति मेघा आस्विति वर्षाः । स्त्रियां भूम्नि च। यथा-पङ्कभाजोऽपि हर्षाय वर्षाः । सस्याभिलाषिणाम। अथ विषं जले। क्ष्वेडे। वेवेष्टि विषं पुंक्लीबः । द्वयोर्यथा-मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम्। विषा त्वतिविषा अतिविषा ओषधिः। वृषो गव्यारवुधर्मयोः । पुंराशिभेदयोः शृङ्ग्यां वासके शुक्रलेऽपि च । श्रेष्ठे स्यादुत्तरस्थश्च । वर्षति वृषः । गवि यथा-असंपदस्तस्य वृषेण गच्छतः । आखो मूषिके यथा-निर्जन्तौ वृषदंश एष कुरुते मूकः स्थितोऽप्यत्र किम् । धर्मे राशिभेदे च यथादिवसपतेरपि दिवसाः प्रयान्ति वृद्धि वृष चरतः ॥५५८।।