________________
(३१६)
अनेकार्थसंग्रह सटीकः
मोक्षो निःश्रेयसे वृक्षविशेषे मोचने मृतौ ॥ यक्षः श्रीदे गुह्यके च रक्षा रक्षणभस्मनोः ॥५५६।। • रूक्षोऽस्निग्धपरुषयोर्लक्षं व्यजशरव्ययोः ॥
संख्यायामपि वर्षस्तु समाद्विपांशवृष्टिषु ॥५५७।। विग्रहः। मिषं व्याजे स्पर्धने च । मिषत्यनेन मिषम् । स्थादित्वात्कः। व्याजे यथा-हारान्तःस्थितपद्मरागमिषतः फालं दधौ शुद्धये । स्पर्द्धनं संघर्षः । मेषो राश्यन्तरे हुडौ। मिषति मेष: । लिहाद्यच् । मीयते वा । "व क त मीङ्” (उ० ५४०) इति षः। हुडौ पुंक्लीबः। राश्यन्तरे यथा-मेषोद्वृषमुपारूढाः । हुडौं यथा-यदपसरति मेषः कारणं तत्प्रहर्तुम् ॥५५५॥ मोक्षो निःश्रेयसे वृक्षविशेषे मोचने मृतौ । मोक्षणं मोक्ष्यते वा मोक्षः । मुञ्चति वा। "मा वा वद्यमि" (उ० ५६४) इति सः । निःश्रेयसे यथा-उपेयुषो मोक्षपथं मनस्विनः । वृक्षविशेषो मुष्ककनामा तरुः। मोचने यथा-स कारयामास वधूं पुरोधास्तस्मिन्समिद्धाचिषि लाजमोक्षम् । मृतौ यथा-मोक्षं गतोऽश्वः सहसव कक्षे । यक्षः श्रीदे गुह्यके च । इज्यते यक्षः। मा वा वदि (५६४) इति सः। श्रीदे यथा-अथ वैश्रवणीयेऽत्र बलिं यक्षाय कल्पयेत् । गुह्यके यथायक्षश्चके जनकतनया इनानपुण्योदकेषु । रक्षा रक्षणभस्मनोः । रक्षणं रक्ष्यतेऽनया वा रक्षा। रक्षणे यथा-रक्षातोर्नवशशिभृता वासवीनां चमूनाम् । भस्मनि यथा-होमाग्नि रक्षातिलक चकार ॥५५६॥ रूक्षोऽस्निग्धपरुषयोः । रूक्षयति रूक्षः । गुणे पुंसि । तद्वति वाच्यलिङ्गः। अस्निग्धो नीरसः। प्रेमवजितो वा। नीरसे यथा-भिक्षुभिर्लक्षितं क्षेत्रं रूक्षभैक्षबुभुक्षुभिः । प्रेमवर्जितपरुषयोर्यथा-इत्युक्तवन्तं जनकात्मजायां निता