________________
द्वितीयः काण्डः
(३१५)
Avvvvvvvvvvvv
पौषो मासप्रभेदे स्यात्पौषं तु महयुद्धयोः ।। भिक्षा सेवाप्रार्थनयो तौ भिक्षितवस्तुनि ॥५५४।। माषो माने धान्यभेदे मूर्खे त्वग्दोषभिद्यपि ।
मिषं ब्याजे स्पर्धने च मेषो राश्यन्तरे हुडौ ॥५५५।। बुधैः । नृत्ये यथा-प्रेक्षा क्षणे वर्तते । प्रैषः प्रेषणपीडने । प्रेषणं प्रेषः। “प्रस्य प्रेष्य" १।२।१४। इति एत्वम् । प्रेषणे यथाप्रैषप्रौढा इह प्रैष्याः । प्रौहप्रौढिं न कुर्वते । पीडनं मर्दनम् । क्लेशोन्मानयोरपि ॥५५३।। पौषो मासप्रभेदे स्यात् । पौषी पौर्णमासी अस्य पौषः । “साऽस्य पौर्णमासी" ६।२।९८। इति अण् । यथा-यदुद्भक्तं पौषमाघयोः । पौषं तु महयुद्धयोः । पुष्ये भवं पौषम् । “भर्तुसन्ध्यादेरणि" ६।३।८९। तिष्यपुष्ययो• र्भाणि । २।४।९। इति य लुक् । मह उत्सवः। युद्धं सङ्ग्रामः। भिक्षा सेवाप्रार्थनयोम तौ भिक्षितवस्तुनि । भिक्षणं भिक्ष्यते वा भिक्षा । "क्तेट" ५।३।१०६। इति अः । सेवायां यथा-भिक्षामाचरतः क्षयं परिगतः सर्वो गुणानां गणः । प्रार्थनायां यथाभिक्षा सत्कुभिरेव सम्प्रति वयं वृत्ति समीहामहे । भृतौ वेतने यथा-ऋत्विग्भ्यो न हि निर्वेदे भिक्षा देया कदाचन । नान्तबैद्यनियुक्तेभ्यो यथा-श्राद्धं त्वया चिता। अत्र हि प्रार्थना नास्ति । भिक्षितवस्तुनि यथा-भिक्षाभोजी तद्गृहे रुक्षगात्रः। ॥५५४।। माषो माने धान्यभेदे मूर्खे : त्वग्दोषभिद्यपि । मीयतेऽनेन माषः। “वृ कृ त मीङ् माभ्यः षः" (उ० ५४०) इति षः। : माने धान्यभेदे च पुंक्लीबः । माने यथा-माषो दशार्द्धगुजः । .: धान्यभेदे यथा - तिलैीहियवैरिद्भिर्मूलफलेन वा। मूर्यो
बालिशः । तत्र वाच्यलिङ्गः । त्वग्दोषभिदि यथा-माषकल्माष